Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 4

संस्कृत

Passage 101.1

यदग्ने रोहितँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ १ ॥

पदच्छेद

यत्yatअग्नेःagneḥरोहितम्rohitamरूपम्rūpamतेजसःtejasaḥतत्tatरूपम्rūpamयत्yatशुक्लम्śuklamतत्tatअपाम्apāmयत्yatकृष्णम्kṛṣṇamतत्tatअन्नस्यannasyaअपागात्apāgātअग्नेःagneḥअग्नित्वम्agnitvamवाचारम्भणम्vācārambhaṇamविकारःvikāraḥनामधेयम्nāmadheyamत्रीणिtrīṇiरूपाणिrūpāṇiइतिitiएवevaसत्यम्satyam

अन्वय

अग्नेः यत् रोहितम् रूपम् [अस्ति], तत् तेजसः रूपम् [अस्ति]; यत् शुक्लम् [रूपम् अस्ति], तत् अपाम् [रूपम् अस्ति]; यत् कृष्णम् [रूपम् अस्ति], तत् अन्नस्य [रूपम् अस्ति] । अग्नेः अग्नित्वम् अपागात् । विकारः वाचारम्भणम् नामधेयम् [अस्ति]; त्रीणि रूपाणि इति एव सत्यम् [अस्ति] ।

Passage 101.2

यदादित्यस्य रोहितँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ २ ॥

पदच्छेद

यत्yatआदित्यस्यādityasyaरोहितम्rohitamरूपम्rūpamतेजसःtejasaḥतत्tatरूपम्rūpamयत्yatशुक्लम्śuklamतत्tatअपाम्apāmयत्yatकृष्णम्kṛṣṇamतत्tatअन्नस्यannasyaअपागात्apāgātआदित्यात्ādityātआदित्यत्वम्ādityatvamवाचारम्भणम्vācārambhaṇamविकारःvikāraḥनामधेयम्nāmadheyamत्रीणिtrīṇiरूपाणिrūpāṇiइतिitiएवevaसत्यम्satyam

अन्वय

आदित्यस्य यत् रोहितम् रूपम् [अस्ति], तत् तेजसः रूपम् [अस्ति]; यत् शुक्लम् [रूपम् अस्ति], तत् अपाम् [रूपम् अस्ति]; यत् कृष्णम् [रूपम् अस्ति], तत् अन्नस्य [रूपम् अस्ति] । आदित्यात् आदित्यत्वम् अपागात् । विकारः वाचारम्भणम् नामधेयम् [अस्ति]; त्रीणि रूपाणि इति एव सत्यम् [अस्ति] ।

Passage 101.3

यच्छन्द्रमसो रोहितँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ३ ॥

पदच्छेद

यत्yatचन्द्रमसःcandramasaḥरोहितम्rohitamरूपम्rūpamतेजसःtejasaḥतत्tatरूपम्rūpamयत्yatशुक्लम्śuklamतत्tatअपाम्apāmयत्yatकृष्णम्kṛṣṇamतत्tatअन्नस्यannasyaअपागात्apāgātचन्द्रात्candrātचन्द्रत्वम्candratvamवाचारम्भणम्vācārambhaṇamविकारःvikāraḥनामधेयम्nāmadheyamत्रीणिtrīṇiरूपाणिrūpāṇiइतिitiएवevaसत्यम्satyam

अन्वय

चन्द्रमसः यत् रोहितम् रूपम् [अस्ति], तत् तेजसः रूपम् [अस्ति]; यत् शुक्लम् [रूपम् अस्ति], तत् अपाम् [रूपम् अस्ति]; यत् कृष्णम् [रूपम् अस्ति], तत् अन्नस्य [रूपम् अस्ति] । चन्द्रात् चन्द्रत्वम् अपागात् । विकारः वाचारम्भणम् नामधेयम् [अस्ति]; त्रीणि रूपाणि इति एव सत्यम् [अस्ति] ।

Passage 101.4

यद्विद्युतो रोहितँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ४ ॥

पदच्छेद

यत्yatविद्युतःvidyutaḥरोहितम्rohitamरूपम्rūpamतेजसःtejasaḥतत्tatरूपम्rūpamयत्yatशुक्लम्śuklamतत्tatअपाम्apāmयत्yatकृष्णम्kṛṣṇamतत्tatअन्नस्यannasyaअपागात्apāgātविद्युतःvidyutaḥविद्युत्त्वम्vidyuttvamवाचारम्भणम्vācārambhaṇamविकारःvikāraḥनामधेयम्nāmadheyamत्रीणिtrīṇiरूपाणिrūpāṇiइतिitiएवevaसत्यम्satyam

अन्वय

विद्युतः यत् रोहितम् रूपम् [अस्ति], तत् तेजसः रूपम् [अस्ति]; यत् शुक्लम् [रूपम् अस्ति], तत् अपाम् [रूपम् अस्ति]; यत् कृष्णम् [रूपम् अस्ति], तत् अन्नस्य [रूपम् अस्ति] । विद्युतः विद्युत्त्वम् अपागात् । विकारः वाचारम्भणम् नामधेयम् [अस्ति]; त्रीणि रूपाणि इति एव सत्यम् [अस्ति] ।

Passage 101.5

एतद्ध स्म वै तद्विद्वाँस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो विदाञ्चक्रुः ॥ ५ ॥

पदच्छेद

एतत्etatहhaस्मsmaवैvaiतत्tatविद्वांसःvidvāṃsaḥआहुःāhuḥपूर्वेpūrveमहाशालाःmahāśālāḥमहाश्रोत्रियाःmahāśrotriyāḥनnaनःnaḥअद्यadyaकश्चनkaścanaअश्रुतम्aśrutamअमतम्amatamअविज्ञातम्avijñātamउदाहरिष्यतिudāhariṣyatiइतिitiहिhiएभ्यःebhyaḥविदांvidāṃचक्रुःcakruḥ

अन्वय

तत् विद्वांसः पूर्वे महाशालाः महाश्रोत्रियाः ह स्म वै एतत् आहुः—अद्य नः कश्चन अश्रुतम् अमतम् अविज्ञातम् न उदाहरिष्यति इति । एभ्यः हि [सर्वम्] विदाञ्चक्रुः ।

Passage 101.6

यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदाञ्चक्रुर्यदु शुक्लमिवाभूदित्यपाँरूपमिति तद्विदाञ्चक्रुर्यदु कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदाञ्चक्रुः ॥ ६ ॥

पदच्छेद

यत्yatउuरोहितम्rohitamइवivaअभूत्abhūtइतिitiतेजसःtejasaḥतत्tatरूपम्rūpamइतिitiतत्tatविदांvidāṃचक्रुःcakruḥयत्yatउuशुक्लम्śuklamइवivaअभूत्abhūtइतिitiअपाम्apāmरूपम्rūpamइतिitiतत्tatविदांvidāṃचक्रुःcakruḥयत्yatउuकृष्णम्kṛṣṇamइवivaअभूत्abhūtइतिitiअन्नस्यannasyaरूपम्rūpamइतिitiतत्tatविदांvidāṃचक्रुःcakruḥ

अन्वय

यत् उ रोहितम् इव अभूत् इति [गृहीतम्], तत् तेजसः रूपम् इति तत् [ते] विदाञ्चक्रुः । यत् उ शुक्लम् इव अभूत् इति [गृहीतम्], [तत्] अपाम् रूपम् इति तत् [ते] विदाञ्चक्रुः । यत् उ कृष्णम् इव अभूत् इति [गृहीतम्], [तत्] अन्नस्य रूपम् इति तत् [ते] विदाञ्चक्रुः ।

Passage 101.7

यद्वविज्ञातमिवाभूदित्येतासामेव देवतानाँसमास इति तद्विदाञ्चक्रुर्यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ७ ॥

पदच्छेद

यत्yatउuअविज्ञातम्avijñātamइवivaअभूत्abhūtइतिitiएतासाम्etāsāmएवevaदेवतानाम्devatānāmसमासःsamāsaḥइतिitiतत्tatविदांvidāṃचक्रुःcakruḥयथाyathāनुnuखलुkhaluसोम्यsomyaइमाःimāḥतिस्रःtisraḥदेवताःdevatāḥपुरुषम्puruṣamप्राप्यprāpyaत्रिवृत्trivṛtत्रिवृत्trivṛtएकैकाekaikāभवतिbhavatiतत्tatमेmeविजानीहिvijānīhiइतिiti

अन्वय

यत् उ अविज्ञातम् इव अभूत् इति [गृहीतम्], [तत्] एतासाम् एव देवतानाम् समासः इति तत् [ते] विदाञ्चक्रुः । सोम्य, यथा नु खलु इमाः तिस्रः देवताः पुरुषम् प्राप्य एकैका त्रिवृत् त्रिवृत् भवति, तत् मे [निगदतः] विजानीहि इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 4

Read the whole section →