Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 15

संस्कृत

Passage 28.1

अभ्राणि संप्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ १ ॥

पदच्छेद

अभ्राणिabhrāṇiसम्प्लवन्तेsamplavanteसःsaḥहिङ्कारःhiṅkāraḥमेघःmeghaḥजायतेjāyateसःsaḥप्रस्तावःprastāvaḥवर्षतिvarṣatiसःsaḥउद्गीथःudgīthaḥविद्योततेvidyotateस्तनयतिstanayatiसःsaḥप्रतिहारःpratihāraḥउद्गृह्णातिudgṛhṇātiतत्tatनिधनम्nidhanamएतत्etatवैरूपम्vairūpamपर्जन्येparjanyeप्रोतम्protam

अन्वय

अभ्राणि संप्लवन्ते, सः हिङ्कारः [अस्ति] । मेघः जायते, सः प्रस्तावः [अस्ति] । वर्षति, सः उद्गीथः [अस्ति] । विद्योतते स्तनयति, सः प्रतिहारः [अस्ति] । उद्गृह्णाति, तत् निधनम् [अस्ति] । एतत् वैरूपम् पर्जन्ये प्रोतम् [अस्ति] ।

Passage 28.2

स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपाꣳश्च सुरूपाꣳश्च पशूनवरुन्धे सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या वर्षन्तं न निन्देत्तद्व्रतम् ॥ २ ॥

पदच्छेद

सःsaḥयःyaḥएवम्evamएतत्etatवैरूपम्vairūpamपर्जन्येparjanyeप्रोतम्protamवेदvedaविरूपान्virūpānचcaसुरूपान्surūpānचcaपशून्paśūnअवरुन्धेavarundheसर्वम्sarvamआयुःāyuḥएतिetiज्योक्jyokजीवतिjīvatiमहान्mahānप्रजयाprajayāपशुभिःpaśubhiḥभवतिbhavatiमहान्mahānकीर्त्याkīrtyāवर्षन्तम्varṣantamनnaनिन्देत्nindetतत्tatव्रतम्vratam

अन्वय

सः यः एवम् पर्जन्ये प्रोतम् एतत् वैरूपम् वेद, [सः] विरूपान् च सुरूपान् च पशून् अवरुन्धे, सर्वम् आयुः एति, ज्योक् जीवति, प्रजया पशुभिः महान् भवति, कीर्त्या महान् [भवति] । वर्षन्तम् न निन्देत्; तत् व्रतम् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 15

Read the whole section →