Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 1

संस्कृत

Passage 98.1

श्वेतकेतुर्हारुणेय आस तँ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ १ ॥

पदच्छेद

श्वेतकेतुःśvetaketuḥहhaआरुणेयःāruṇeyaḥआसāsaतम्tamहhaपिताpitāउवाचuvācaश्वेतकेतोśvetaketoवसvasaब्रह्मचर्यम्brahmacaryamनnaवैvaiसोम्यsomyaअस्मत्कुलीनःasmatkulīnaḥअननूच्यananūcyaब्रह्मबन्धुःbrahmabandhuḥइवivaभवतिbhavatiइतिiti

अन्वय

श्वेतकेतुः आरुणेयः ह आस । तम् ह पिता, श्वेतकेतो, ब्रह्मचर्यम् वस; सोम्य, अस्मत्कुलीनः अननूच्य ब्रह्मबन्धुः इव न वै भवति इति उवाच ।

Passage 98.2

स ह द्वादशवर्ष उपेत्य चतुर्विँशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तँह पितोवाच ॥ २ ॥

पदच्छेद

सःsaḥहhaद्वादशवर्षःdvādaśavarṣaḥउपेत्यupetyaचतुर्विंशतिवर्षःcaturviṃśativarṣaḥसर्वान्sarvānवेदान्vedānअधीत्यadhītyaमहामनाःmahāmanāḥअनूचानमानीanūcānamānīस्तब्धःstabdhaḥएयायeyāyaतम्tamहhaपिताpitāउवाचuvāca

अन्वय

सः ह द्वादशवर्षः [आचार्यम्] उपेत्य सर्वान् वेदान् अधीत्य, चतुर्विंशतिवर्षः महामनाः अनूचानमानी स्तब्धः एयाय । तम् ह पिता उवाच ।

Passage 98.3

श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतँ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥

पदच्छेद

श्वेतकेतोśvetaketoयत्yatनुnuसोम्यsomyaइदम्idamमहामनाःmahāmanāḥअनूचानमानीanūcānamānīस्तब्धःstabdhaḥअसिasiउतutaतम्tamआदेशम्ādeśamअप्राक्ष्यःaprākṣyaḥयेनyenaअश्रुतम्aśrutamश्रुतम्śrutamभवतिbhavatiअमतम्amatamमतम्matamअविज्ञातम्avijñātamविज्ञातम्vijñātamइतिitiकथम्kathamनुnuभगवःbhagavaḥसःsaḥआदेशःādeśaḥभवतिbhavatiइतिiti

अन्वय

[पिता], श्वेतकेतो, सोम्य, यत् नु इदम् [त्वम्] महामनाः अनूचानमानी स्तब्धः असि, उत तम् आदेशम् अप्राक्ष्यः, येन अश्रुतम् श्रुतम् भवति, अमतम् मतम् [भवति], अविज्ञातम् विज्ञातम् [भवति] इति [उवाच] । [सः], भगवः, सः आदेशः कथम् नु भवति इति [पप्रच्छ] ।

Passage 98.4

यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातँ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥

पदच्छेद

यथाyathāसोम्यsomyaएकेनekenaमृत्पिण्डेनmṛtpiṇḍenaसर्वम्sarvamमृन्मयम्mṛnmayamविज्ञातम्vijñātamस्यात्syātवाचारम्भणम्vācārambhaṇamविकारःvikāraḥनामधेयम्nāmadheyamमृत्तिकाmṛttikāइतिitiएवevaसत्यम्satyam

अन्वय

सोम्य, यथा एकेन मृत्पिण्डेन सर्वम् मृन्मयम् विज्ञातम् स्यात्; विकारः वाचारम्भणम् नामधेयम् [अस्ति]; मृत्तिका इति एव सत्यम् [अस्ति] ।

Passage 98.5

यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातँ स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ ५ ॥

पदच्छेद

यथाyathāसोम्यsomyaएकेनekenaलोहमणिनाlohamaṇināसर्वम्sarvamलोहमयम्lohamayamविज्ञातम्vijñātamस्यात्syātवाचारम्भणम्vācārambhaṇamविकारःvikāraḥनामधेयम्nāmadheyamलोहम्lohamइतिitiएवevaसत्यम्satyam

अन्वय

सोम्य, यथा एकेन लोहमणिना सर्वम् लोहमयम् विज्ञातम् स्यात्; विकारः वाचारम्भणम् नामधेयम् [अस्ति]; लोहम् इति एव सत्यम् [अस्ति] ।

Passage 98.6

यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातँ स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेवँसोम्य स आदेशो भवतीति ॥ ६ ॥

पदच्छेद

यथाyathāसोम्यsomyaएकेनekenaनखनिकृन्तनेनnakhanikṛntanenaसर्वम्sarvamकार्ष्णायसम्kārṣṇāyasamविज्ञातम्vijñātamस्यात्syātवाचारम्भणम्vācārambhaṇamविकारःvikāraḥनामधेयम्nāmadheyamकृष्णायसम्kṛṣṇāyasamइतिitiएवevaसत्यम्satyamएवम्evamसोम्यsomyaसःsaḥआदेशःādeśaḥभवतिbhavatiइतिiti

अन्वय

सोम्य, यथा एकेन नखनिकृन्तनेन सर्वम् कार्ष्णायसम् विज्ञातम् स्यात्; विकारः वाचारम्भणम् नामधेयम् [अस्ति]; कृष्णायसम् इति एव सत्यम् [अस्ति] । सोम्य, सः आदेशः एवम् भवति इति ।

Passage 98.7

न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं मे नावक्ष्यन्निति भगवाँस्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच ॥ ७ ॥

पदच्छेद

नnaवैvaiनूनम्nūnamभगवन्तःbhagavantaḥतेteएतत्etatअवेदिषुःavediṣuḥयत्yatहिhiएतत्etatअवेदिष्यन्avediṣyanकथम्kathamमेmeनnaअवक्ष्यन्avakṣyanइतिitiभगवान्bhagavānतुtuएवevaमेmeतत्tatब्रवीतुbravītuइतिitiतथाtathāसोम्यsomyaइतिitiहhaउवाचuvāca

अन्वय

ते भगवन्तः एतत् न वै नूनम् अवेदिषुः; यत् हि एतत् अवेदिष्यन्, कथम् मे न अवक्ष्यन् इति [सः उवाच] । भगवान् तु एव मे तत् ब्रवीतु इति [सः उवाच] । [पिता], तथा, सोम्य इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 1

Read the whole section →