Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 15

संस्कृत

Passage 52.1

अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलꣳस एष कोशो वसुधानस्तस्मिन्विश्वमिदꣳश्रितम् ॥ १ ॥

पदच्छेद

अन्तरिक्षोदरःantarikṣodaraḥकोशःkośaḥभूमिबुध्नःbhūmibudhnaḥनnaजीर्यतिjīryatiदिशःdiśaḥहिhiअस्यasyaस्रक्तयःsraktayaḥद्यौःdyauḥअस्यasyaउत्तरम्uttaramबिलम्bilamसःsaḥएषःeṣaḥकोशःkośaḥवसुधानःvasudhānaḥतस्मिन्tasminविश्वम्viśvamइदम्idamश्रितम्śritam

अन्वय

अन्तरिक्षोदरः भूमिबुध्नः कोशः न जीर्यति । हि अस्य दिशः स्रक्तयः [सन्ति]; अस्य द्यौः उत्तरम् बिलम् [अस्ति] । सः एषः कोशः वसुधानः [अस्ति] । तस्मिन् इदम् विश्वम् श्रितम् [अस्ति] ।

Passage 52.2

तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदꣳरोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदꣳरुदम् ॥ २ ॥

पदच्छेद

तस्यtasyaप्राचीprācīदिक्dikजुहूःjuhūḥनामnāmaसहमानाsahamānāनामnāmaदक्षिणाdakṣiṇāराज्ञीrājñīनामnāmaप्रतीचीpratīcīसुभूताsubhūtāनामnāmaउदीचीudīcīतासाम्tāsāmवायुःvāyuḥवत्सःvatsaḥसःsaḥयःyaḥएतम्etamएवम्evamवायुम्vāyumदिशाम्diśāmवत्सम्vatsamवेदvedaनnaपुत्ररोदम्putrarodamरोदितिroditiसःsaḥअहम्ahamएतम्etamएवम्evamवायुम्vāyumदिशाम्diśāmवत्सम्vatsamवेदvedaमाmāपुत्ररोदम्putrarodamरुदम्rudam

अन्वय

तस्य प्राची दिक् जुहूः नाम [अस्ति]; दक्षिणा [दिक्] सहमाना नाम [अस्ति]; प्रतीची [दिक्] राज्ञी नाम [अस्ति]; उदीची [दिक्] सुभूता नाम [अस्ति] । तासाम् वायुः वत्सः [अस्ति] । यः एतम् वायुम् दिशाम् वत्सम् एवम् वेद, सः पुत्ररोदम् न रोदिति । सः अहम् एतम् वायुम् दिशाम् वत्सम् एवम् वेद । पुत्ररोदम् मा रुदम् ।

Passage 52.3

अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३ ॥

पदच्छेद

अरिष्टम्ariṣṭamकोशम्kośamप्रपद्येprapadyeअमुनाamunāअमुनाamunāअमुनाamunāप्राणम्prāṇamप्रपद्येprapadyeअमुनाamunāअमुनाamunāअमुनाamunāभूःbhūḥप्रपद्येprapadyeअमुनाamunāअमुनाamunāअमुनाamunāभुवःbhuvaḥप्रपद्येprapadyeअमुनाamunāअमुनाamunāअमुनाamunāस्वःsvaḥप्रपद्येprapadyeअमुनाamunāअमुनाamunāअमुनाamunā

अन्वय

[अहम्] अरिष्टम् कोशम् प्रपद्ये [पुत्रायुषे]; अमुना अमुना अमुना [इति पुत्रस्य नाम त्रिः गृह्णाति] । [अहम्] प्राणम् प्रपद्ये; अमुना अमुना अमुना [इति पुत्रस्य नाम त्रिः गृह्णाति] । [अहम्] भूः प्रपद्ये; अमुना अमुना अमुना [इति पुत्रस्य नाम त्रिः गृह्णाति] । [अहम्] भुवः प्रपद्ये; अमुना अमुना अमुना [इति पुत्रस्य नाम त्रिः गृह्णाति] । [अहम्] स्वः प्रपद्ये; अमुना अमुना अमुना [इति पुत्रस्य नाम त्रिः गृह्णाति] ।

Passage 52.4

स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदꣳ सर्वं भूतं यदिदं किञ्च तमेव तत्प्रापत्सि ॥ ४ ॥

पदच्छेद

सःsaḥयत्yatअवोचम्avocamप्राणम्prāṇamप्रपद्येprapadyeइतिitiप्राणःprāṇaḥवैvaiइदम्idamसर्वम्sarvamभूतम्bhūtamयत्yatइदम्idamकिञ्चkiñcaतम्tamएवevaतत्tatप्रापत्सिprāpatsi

अन्वय

सः [अहम्] प्राणम् प्रपद्ये इति यत् अवोचम्, यत् इदम् किम् च [अस्ति], इदम् सर्वम् भूतम् वा प्राणः [अस्ति] । तत् तम् एव [अहम्] प्रापत्सि ।

Passage 52.5

अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥

पदच्छेद

अथathaयत्yatअवोचम्avocamभूःbhūḥप्रपद्येprapadyeइतिitiपृथिवीम्pṛthivīmप्रपद्येprapadyeअन्तरिक्षम्antarikṣamप्रपद्येprapadyeदिवम्divamप्रपद्येprapadyeइतिitiएवevaतत्tatअवोचम्avocam

अन्वय

अथ भूः प्रपद्ये इति यत् अवोचम्, पृथिवीम् प्रपद्ये, अन्तरिक्षम् प्रपद्ये, दिवम् प्रपद्ये इति एव तत् अवोचम् ।

Passage 52.6

अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥

पदच्छेद

अथathaयत्yatअवोचम्avocamभुवःbhuvaḥप्रपद्येprapadyeइतिitiअग्निम्agnimप्रपद्येprapadyeवायुम्vāyumप्रपद्येprapadyeआदित्यम्ādityamप्रपद्येprapadyeइतिitiएवevaतत्tatअवोचम्avocam

अन्वय

अथ भुवः प्रपद्ये इति यत् अवोचम्, अग्निम् प्रपद्ये, वायुम् प्रपद्ये, आदित्यम् प्रपद्ये इति एव तत् अवोचम् ।

Passage 52.7

अथ यदवोचꣳस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ७ ॥

पदच्छेद

अथathaयत्yatअवोचम्avocamस्वःsvaḥप्रपद्येprapadyeइतिitiऋग्वेदम्ṛgvedamप्रपद्येprapadyeयजुर्वेदम्yajurvedamप्रपद्येprapadyeसामवेदम्sāmavedamप्रपद्येprapadyeइतिitiएवevaतत्tatअवोचम्avocamतत्tatअवोचम्avocam

अन्वय

अथ स्वः प्रपद्ये इति यत् अवोचम्, ऋग्वेदम् प्रपद्ये, यजुर्वेदम् प्रपद्ये, सामवेदम् प्रपद्ये इति एव तत् अवोचम्; तत् अवोचम् ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 15

Read the whole section →