Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 5

संस्कृत

Passage 118.1

चित्तं वाव सङ्कल्पाद्भूयो यदा वै चेतयतेऽथ सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥

पदच्छेद

चित्तम्cittamवावvāvaसङ्कल्पात्saṅkalpātभूयःbhūyaḥयदाyadāवैvaiचेतयतेcetayateअथathaसङ्कल्पयतेsaṅkalpayateअथathaमनस्यतिmanasyatiअथathaवाचम्vācamईरयतिīrayatiताम्tāmउuनाम्निnāmniईरयतिīrayatiनाम्निnāmniमन्त्राःmantrāḥएकम्ekamभवन्तिbhavantiमन्त्रेषुmantreṣuकर्माणिkarmāṇi

अन्वय

चित्तम् वाव सङ्कल्पात् भूयः [अस्ति] । यदा वै चेतयते, अथ सङ्कल्पयते; अथ मनस्यति; अथ वाचम् ईरयति; ताम् उ नाम्नि ईरयति । नाम्नि मन्त्राः एकम् भवन्ति; मन्त्रेषु कर्माणि [एकम् भवन्ति] ।

Passage 118.2

तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति तस्मा एवोत शुश्रूषन्ते चित्तँह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ २ ॥

पदच्छेद

तानिtāniहhaवैvaiएतानिetāniचित्तैकायनानिcittaikāyanāniचित्तात्मानिcittātmāniचित्तेcitteप्रतिष्ठितानिpratiṣṭhitāniतस्मात्tasmātयदिyadiअपिapiबहुवित्bahuvitअचित्तःacittaḥभवतिbhavatiनnaअयम्ayamअस्तिastiइतिitiएवevaएनम्enamआहुःāhuḥयत्yatअयम्ayamवेदvedaयत्yatवाvāअयम्ayamविद्वान्vidvānनnaइत्थम्itthamअचित्तःacittaḥस्यात्syātइतिitiअथathaयदिyadiअल्पवित्alpavitचित्तवान्cittavānभवतिbhavatiतस्मैtasmaiएवevaउतutaशुश्रूषन्तेśuśrūṣanteचित्तम्cittamहिhiएवevaएषाम्eṣāmएकायनम्ekāyanamचित्तम्cittamआत्माātmāचित्तम्cittamप्रतिष्ठाpratiṣṭhāचित्तम्cittamउपास्स्वupāssvaइतिiti

अन्वय

तानि ह वै एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि [सन्ति] । तस्मात् यदि अपि बहुवित् अचित्तः भवति, अयम् न अस्ति इति एव एनम् आहुः; यत् अयम् वेद, [तत् वृथा]; यत् वा अयम् विद्वान् [स्यात्], इत्थम् अचित्तः न स्यात् इति [आहुः] । अथ यदि अल्पवित् चित्तवान् भवति, तस्मै एव उत शुश्रूषन्ते । चित्तम् हि एव एषाम् एकायनम् [अस्ति]; चित्तम् आत्मा [अस्ति]; चित्तम् प्रतिष्ठा [अस्ति]; चित्तम् उपास्स्व इति [उवाच] ।

Passage 118.3

स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥचित्तम्cittamब्रह्मbrahmaइतिitiउपास्तेupāsteचित्तान्cittānवैvaiसःsaḥलोकान्lokānध्रुवान्dhruvānध्रुवःdhruvaḥप्रतिष्ठितान्pratiṣṭhitānप्रतिष्ठितःpratiṣṭhitaḥअव्यथमानान्avyathamānānअव्यथमानःavyathamānaḥअभिसिध्यतिabhisidhyatiयावत्yāvatचित्तस्यcittasyaगतम्gatamतत्रtatraअस्यasyaयथाकामचारःyathākāmacāraḥभवतिbhavatiयःyaḥचित्तम्cittamब्रह्मbrahmaइतिitiउपास्तेupāsteअस्तिastiभगवःbhagavaḥचित्तात्cittātभूयःbhūyaḥइतिitiचित्तात्cittātवावvāvaभूयःbhūyaḥअस्तिastiइतिitiतत्tatमेmeभगवान्bhagavānब्रवीतुbravītuइतिiti

अन्वय

सः यः चित्तम् ब्रह्म इति उपास्ते, सः ध्रुवः प्रतिष्ठितः अव्यथमानः [सन्] चित्तान् ध्रुवान् प्रतिष्ठितान् अव्यथमानान् लोकान् वै अभिसिध्यति । यावत् चित्तस्य गतम् [अस्ति], तत्र अस्य यथाकामचारः भवति—यः चित्तम् ब्रह्म इति उपास्ते । [नारदः], भगवः, चित्तात् भूयः अस्ति इति [पप्रच्छ] । [सनत्कुमारः], चित्तात् वाव भूयः अस्ति इति [उवाच] । [नारदः], तत् मे भगवान् ब्रवीतु इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 5

Read the whole section →