Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 13

संस्कृत

Passage 50.1

तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥

पदच्छेद

तस्यtasyaहhaवैvaiएतस्यetasyaहृदयस्यhṛdayasyaपञ्चpañcaदेवसुषयःdevasuṣayaḥसःsaḥयःyaḥअस्यasyaप्राङ्prāṅसुषिःsuṣiḥसःsaḥप्राणःprāṇaḥतत्tatचक्षुःcakṣuḥसःsaḥआदित्यःādityaḥतत्tatएतत्etatतेजःtejaḥअन्नाद्यम्annādyamइतिitiउपासीतupāsītaतेजस्वीtejasvīअन्नादःannādaḥभवतिbhavatiयःyaḥएवम्evamवेदveda

अन्वय

तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः [सन्ति] । सः यः अस्य प्राङ्सुषिः [अस्ति], सः प्राणः [अस्ति]; तत् चक्षुः [अस्ति]; सः आदित्यः [अस्ति] । तत् एतत् तेजः अन्नाद्यम् इति उपासीत । यः एवम् वेद, [सः] तेजस्वी अन्नादः भवति ।

Passage 50.2

अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रꣳस चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ २ ॥

पदच्छेद

अथathaयःyaḥअस्यasyaदक्षिणःdakṣiṇaḥसुषिःsuṣiḥसःsaḥव्यानःvyānaḥतत्tatश्रोत्रम्śrotramसःsaḥचन्द्रमाःcandramāḥतत्tatएतत्etatश्रीःśrīḥचcaयशःyaśaḥचcaइतिitiउपासीतupāsītaश्रीमान्śrīmānयशस्वीyaśasvīभवतिbhavatiयःyaḥएवम्evamवेदveda

अन्वय

अथ यः अस्य दक्षिणः सुषिः [अस्ति], सः व्यानः [अस्ति]; तत् श्रोत्रम् [अस्ति]; सः चन्द्रमाः [अस्ति] । तत् एतत् श्रीः च यशः च इति उपासीत । यः एवम् वेद, [सः] श्रीमान् यशस्वी भवति ।

Passage 50.3

अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३ ॥

पदच्छेद

अथathaयःyaḥअस्यasyaप्रत्यङ्pratyaṅसुषिःsuṣiḥसःsaḥअपानःapānaḥसाsāवाक्vākसःsaḥअग्निःagniḥतत्tatएतत्etatब्रह्मवर्चसम्brahmavarcasamअन्नाद्यम्annādyamइतिitiउपासीतupāsītaब्रह्मवर्चसीbrahmavarcasīअन्नादःannādaḥभवतिbhavatiयःyaḥएवम्evamवेदveda

अन्वय

अथ यः अस्य प्रत्यङ्सुषिः [अस्ति], सः अपानः [अस्ति]; सा वाक् [अस्ति]; सः अग्निः [अस्ति] । तत् एतत् ब्रह्मवर्चसम् अन्नाद्यम् इति उपासीत । यः एवम् वेद, [सः] ब्रह्मवर्चसी अन्नादः भवति ।

Passage 50.4

अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ४ ॥

पदच्छेद

अथathaयःyaḥअस्यasyaउदङ्udaṅसुषिःsuṣiḥसःsaḥसमानःsamānaḥतत्tatमनःmanaḥसःsaḥपर्जन्यःparjanyaḥतत्tatएतत्etatकीर्तिःkīrtiḥचcaव्युष्टिःvyuṣṭiḥचcaइतिitiउपासीतupāsītaकीर्तिमान्kīrtimānव्युष्टिमान्vyuṣṭimānभवतिbhavatiयःyaḥएवम्evamवेदveda

अन्वय

अथ यः अस्य उदङ्सुषिः [अस्ति], सः समानः [अस्ति]; तत् मनः [अस्ति]; सः पर्जन्यः [अस्ति] । तत् एतत् कीर्तिः च व्युष्टिः च इति उपासीत । यः एवम् वेद, [सः] कीर्तिमान् व्युष्टिमान् भवति ।

Passage 50.5

अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान्भवति य एवं वेद ॥ ५ ॥

पदच्छेद

अथathaयःyaḥअस्यasyaऊर्ध्वःūrdhvaḥसुषिःsuṣiḥसःsaḥउदानःudānaḥसःsaḥवायुःvāyuḥसःsaḥआकाशःākāśaḥतत्tatएतत्etatओजःojaḥचcaमहःmahaḥचcaइतिitiउपासीतupāsītaओजस्वीojasvīमहस्वान्mahasvānभवतिbhavatiयःyaḥएवम्evamवेदveda

अन्वय

अथ यः अस्य ऊर्ध्वः सुषिः [अस्ति], सः उदानः [अस्ति]; सः वायुः [अस्ति]; सः आकाशः [अस्ति] । तत् एतत् ओजः च महः च इति उपासीत । यः एवम् वेद, [सः] ओजस्वी महस्वान् भवति ।

Passage 50.6

ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेद ॥ ६ ॥

पदच्छेद

तेteवैvaiएतेeteपञ्चpañcaब्रह्मपुरुषाःbrahmapuruṣāḥस्वर्गस्यsvargasyaलोकस्यlokasyaद्वारपाःdvārapāḥसःsaḥयःyaḥएतान्etānएवम्evamपञ्चpañcaब्रह्मपुरुषान्brahmapuruṣānस्वर्गस्यsvargasyaलोकस्यlokasyaद्वारपान्dvārapānवेदvedaअस्यasyaकुलेkuleवीरःvīraḥजायतेjāyateप्रतिपद्यतेpratipadyateस्वर्गम्svargamलोकम्lokamयःyaḥएतान्etānएवम्evamपञ्चpañcaब्रह्मपुरुषान्brahmapuruṣānस्वर्गस्यsvargasyaलोकस्यlokasyaद्वारपान्dvārapānवेदveda

अन्वय

ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः [सन्ति] । सः यः एतान् पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् एवम् वेद, अस्य कुले वीरः जायते । यः एतान् पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् एवम् वेद, [सः] स्वर्गम् लोकम् प्रतिपद्यते ।

Passage 50.7

अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ७ ॥

पदच्छेद

अथathaयत्yatअतःataḥपरःparaḥदिवःdivaḥज्योतिःjyotiḥदीप्यतेdīpyateविश्वतःviśvataḥपृष्ठेषुpṛṣṭheṣuसर्वतःsarvataḥपृष्ठेषुpṛṣṭheṣuअनुत्तमेषुanuttameṣuउत्तमेषुuttameṣuलोकेषुlokeṣuइदम्idamवावvāvaतत्tatयत्yatइदम्idamअस्मिन्asminअन्तःantaḥपुरुषेpuruṣeज्योतिःjyotiḥ

अन्वय

अथ यत् ज्योतिः अतः दिवः परः विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुत्तमेषु उत्तमेषु लोकेषु दीप्यते, यत् इदम् अस्मिन् पुरुषे अन्तः ज्योतिः [अस्ति], इदम् वाव तत् [अस्ति] ।

Passage 50.8

तस्यैषा दृष्टिर्यत्रैतदस्मिञ्छरीरे सꣳस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ८ ॥

पदच्छेद

तस्यtasyaएषाeṣāदृष्टिःdṛṣṭiḥयत्रyatraएतत्etatअस्मिन्asminशरीरेśarīreसंस्पर्शेनsaṃsparśenaउष्णिमानम्uṣṇimānamविजानातिvijānātiतस्यtasyaएषाeṣāश्रुतिःśrutiḥयत्रyatraएतत्etatकर्णौkarṇauअपिगृह्यapigṛhyaनिनदम्ninadamइवivaनदथुःnadathuḥइवivaअग्नेःagneḥइवivaज्वलतःjvalataḥउपशृणोतिupaśṛṇotiतत्tatएतत्etatदृष्टम्dṛṣṭamचcaश्रुतम्śrutamचcaइतिitiउपासीतupāsītaचक्षुष्यःcakṣuṣyaḥश्रुतःśrutaḥभवतिbhavatiयःyaḥएवम्evamवेदvedaयःyaḥएवम्evamवेदveda

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 13

Read the whole section →