Sunday Meditation· Open to Everyone

अध्याय 4, खण्ड 1

संस्कृत

Passage 57.1

जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयाञ्चक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ १ ॥

पदच्छेद

जानश्रुतिःjānaśrutiḥहhaपौत्रायणःpautrāyaṇaḥश्रद्धादेयःśraddhādeyaḥबहुदायीbahudāyīबहुपाक्यःbahupākyaḥआसāsaसःsaḥहhaसर्वतःsarvataḥआवसथान्āvasathānमापयाम्māpayāmचक्रेcakreसर्वतःsarvataḥएवevaमेmeअन्नम्annamअत्स्यन्तिatsyantiइतिiti

अन्वय

पौत्रायणः जानश्रुतिः ह श्रद्धादेयः बहुदायी बहुपाक्यः आस । सः ह सर्वतः आवसथान् मापयाञ्चक्रे—सर्वतः एव मे अन्नम् [जनाः] अत्स्यन्ति इति ।

Passage 57.2

अथ हꣳसा निशायामतिपेतुस्तद्धैवꣳ हꣳसोहꣳ समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वा मा प्रधाक्षीरिति ॥ २ ॥

पदच्छेद

अथathaहंसाःhaṃsāḥनिशायाम्niśāyāmअतिपेतुःatipetuḥतत्tatहhaएवम्evamहंसःhaṃsaḥहंसम्haṃsamअभ्युवादabhyuvādaहोhoहोhoअयिayiभल्लाक्षbhallākṣaभल्लाक्षbhallākṣaजानश्रुतेःjānaśruteḥपौत्रायणस्यpautrāyaṇasyaसमम्samamदिवाdivāज्योतिःjyotiḥआततम्ātatamतत्tatमाmāप्रसाङ्क्षीःprasāṅkṣīḥतत्tatत्वाtvāमाmāप्रधाक्षीःpradhākṣīḥइतिiti

अन्वय

अथ हंसाः निशायाम् अतिपेतुः । तत् ह एवम् हंसः हंसम् अभ्युवाद—हो हो अयि भल्लाक्ष भल्लाक्ष, पौत्रायणस्य जानश्रुतेः ज्योतिः दिवा समम् आततम् [अस्ति] । तत् मा प्रसाङ्क्षीः; तत् त्वा मा प्रधाक्षीः इति ।

Passage 57.3

तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तꣳसयुग्वानमिव रैक्वमात्थेति यो नु कथꣳ सयुग्वा रैक्व इति ॥ ३ ॥

पदच्छेद

तम्tamउuहhaपरःparaḥप्रत्युवाचpratyuvācaकम्kamउuअरेareएनम्enamएतत्etatसन्तम्santamसयुग्वानम्sayugvānamइवivaरैक्वम्raikvamआत्थātthaइतिitiयःyaḥनुnuकथम्kathamसयुग्वाsayugvāरैक्वःraikvaḥइतिiti

Passage 57.4

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनꣳसर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४ ॥

पदच्छेद

यथाyathāकृतायkṛtāyaविजितायvijitāyaअधरेयाःadhareyāḥसंयन्तिsaṃyantiएवम्evamएनम्enamसर्वम्sarvamतत्tatअभिसमैतिabhisamaitiयत्yatकिञ्चkiñcaप्रजाःprajāḥसाधुsādhuकुर्वन्तिkurvantiयःyaḥतत्tatवेदvedaयत्yatसःsaḥवेदvedaसःsaḥमयाmayāएतत्etatउक्तःuktaḥइतिiti

अन्वय

यथा विजिताय कृताय अधरे अयाः संयन्ति, एवम् प्रजाः यत् किम् च साधु कुर्वन्ति, तत् सर्वम् एनम् अभिसमैति । यत् सः वेद, तत् यः वेद, सः मया एतत् उक्तः इति ।

Passage 57.5

तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह सञ्जिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति यो नु कथꣳसयुग्वा रैक्व इति ॥ ५ ॥

पदच्छेद

तत्tatउuहhaजानश्रुतिःjānaśrutiḥपौत्रायणःpautrāyaṇaḥउपशुश्रावupaśuśrāvaसःsaḥहhaसञ्जिहानःsañjihānaḥएवevaक्षत्तारम्kṣattāramउवाचuvācaअङ्गaṅgaअरेareहhaसयुग्वानम्sayugvānamइवivaरैक्वम्raikvamआत्थātthaइतिitiयःyaḥनुnuकथम्kathamसयुग्वाsayugvāरैक्वःraikvaḥइतिiti

अन्वय

पौत्रायणः जानश्रुतिः तत् उ ह उपशुश्राव । सः ह सञ्जिहानः एव क्षत्तारम् उवाच—अङ्ग अरे, ह सयुग्वानम् रैक्वम् इव [माम्] आत्थ इति । [क्षत्ता पप्रच्छ—] यः नु [उक्तः], कथम् सयुग्वा रैक्वः [अस्ति] इति ।

Passage 57.6

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनꣳसर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ६ ॥

पदच्छेद

यथाyathāकृतायkṛtāyaविजितायvijitāyaअधरेयाःadhareyāḥसंयन्तिsaṃyantiएवम्evamएनम्enamसर्वम्sarvamतत्tatअभिसमैतिabhisamaitiयत्yatकिञ्चkiñcaप्रजाःprajāḥसाधुsādhuकुर्वन्तिkurvantiयःyaḥतत्tatवेदvedaयत्yatसःsaḥवेदvedaसःsaḥमयाmayāएतत्etatउक्तःuktaḥइतिiti

अन्वय

यथा विजिताय कृताय अधरे अयाः संयन्ति, एवम् प्रजाः यत् किम् च साधु कुर्वन्ति, तत् सर्वम् एनम् अभिसमैति । यत् सः वेद, तत् यः वेद, सः मया एतत् उक्तः इति ।

Passage 57.7

स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तꣳ होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ७ ॥

पदच्छेद

सःsaḥहhaक्षत्ताkṣattāअन्विष्यanviṣyaनnaअविदम्avidamइतिitiप्रत्येयायpratyeyāyaतम्tamहhaउवाचuvācaयत्रyatraअरेareब्राह्मणस्यbrāhmaṇasyaअन्वेषणाanveṣaṇāतत्tatएनम्enamअर्च्छarcchaइतिiti

अन्वय

सः ह क्षत्ता अन्विष्य न अविदम् इति प्रत्येयाय । [जानश्रुतिः] तम् ह उवाच—अरे, यत्र ब्राह्मणस्य अन्वेषणा [भवति], तत् एनम् अर्च्छ इति ।

Passage 57.8

सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश तꣳ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहꣳ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति प्रत्येयाय ॥ ८ ॥

पदच्छेद

सःsaḥअधस्तात्adhastātशकटस्यśakaṭasyaपामानम्pāmānamकषमाणम्kaṣamāṇamउपोपविवेशupopaviveśaतम्tamहhaअभ्युवादabhyuvādaत्वम्tvamनुnuभगवःbhagavaḥसयुग्वाsayugvāरैक्वःraikvaḥइतिitiअहम्ahamहिhiअरा३arā3इतिitiहhaप्रतिजज्ञेpratijajñeसःsaḥहhaक्षत्ताkṣattāअविदम्avidamइतिitiप्रत्येयायpratyeyāya

अन्वय

सः शकटस्य अधस्तात् पामानम् कषमाणम् [रैक्वम्] उपोपविवेश । तम् ह अभ्युवाद—भगवः, त्वम् नु सयुग्वा रैक्वः [असि] इति । अहम् हि अरा३ [सयुग्वा रैक्वः अस्मि] इति [रैक्वः] ह प्रतिजज्ञे । सः ह क्षत्ता अविदम् इति प्रत्येयाय ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 4, खण्ड 1

Read the whole section →