Sunday Meditation· Open to Everyone

अध्याय 4, खण्ड 17

संस्कृत

Passage 73.1

प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाꣳरसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः ॥ १ ॥

पदच्छेद

प्रजापतिःprajāpatiḥलोकान्lokānअभ्यतपत्abhyatapatतेषाम्teṣāmतप्यमानानाम्tapyamānānāmरसान्rasānप्रावृहत्prāvṛhatअग्निम्agnimपृथिव्याःpṛthivyāḥवायुम्vāyumअन्तरिक्षात्antarikṣātआदित्यम्ādityamदिवःdivaḥ

अन्वय

प्रजापतिः लोकान् अभ्यतपत् । तेषाम् तप्यमानानाम् रसान् प्रावृहत्—पृथिव्याः अग्निम्, अन्तरिक्षात् वायुम्, दिवः आदित्यम् ।

Passage 73.2

स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाꣳरसान्प्रावृहदग्नेर्ऋचो वायोर्यजूꣳषि सामान्यादित्यात् ॥ २ ॥

पदच्छेद

सःsaḥएताःetāḥतिस्रःtisraḥदेवताःdevatāḥअभ्यतपत्abhyatapatतासाम्tāsāmतप्यमानानाम्tapyamānānāmरसान्rasānप्रावृहत्prāvṛhatअग्नेःagneḥऋचःṛcaḥवायोःvāyoḥयजूंषिyajūṃṣiसामानिsāmāniआदित्यात्ādityāt

अन्वय

सः एताः तिस्रः देवताः अभ्यतपत् । तासाम् तप्यमानानाम् रसान् प्रावृहत्—अग्नेः ऋचः, वायोः यजूंषि, आदित्यात् सामानि ।

Passage 73.3

स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति सामभ्यः ॥ ३ ॥

पदच्छेद

सःsaḥएताम्etāmत्रयीम्trayīmविद्याम्vidyāmअभ्यतपत्abhyatapatतस्याःtasyāḥतप्यमानायाःtapyamānāyāḥरसान्rasānप्रावृहत्prāvṛhatभूःbhūḥइतिitiऋग्भ्यःṛgbhyaḥभुवःbhuvaḥइतिitiयजुर्भ्यःyajurbhyaḥस्वःsvaḥइतिitiसामभ्यःsāmabhyaḥ

अन्वय

सः एताम् त्रयीम् विद्याम् अभ्यतपत् । तस्याः तप्यमानायाः रसान् प्रावृहत्—ऋग्भ्यः भूः इति [रसम्], यजुर्भ्यः भुवः इति [रसम्], सामभ्यः स्वः इति [रसम्] ।

Passage 73.4

तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टꣳ सन्दधाति ॥ ४ ॥

पदच्छेद

तत्tatयत्yatऋक्तःṛktaḥरिष्येत्riṣyetभूःbhūḥस्वाहाsvāhāइतिitiगार्हपत्येgārhapatyeजुहुयात्juhuyātऋचाम्ṛcāmएवevaतत्tatरसेनrasenaऋचाम्ṛcāmवीर्येणvīryeṇaऋचाम्ṛcāmयज्ञस्यyajñasyaविरिष्टम्viriṣṭamसन्दधातिsandadhāti

अन्वय

तत् यत् [यज्ञः] ऋक्तः रिष्येत्, भूः स्वाहा इति गार्हपत्ये जुहुयात् । तत् ऋचाम् एव रसेन, ऋचाम् वीर्येण, ऋचाम् यज्ञस्य विरिष्टम् सन्दधाति ।

Passage 73.5

स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टꣳ सन्दधाति ॥ ५ ॥

पदच्छेद

सःsaḥयदिyadiयजुष्टःyajuṣṭaḥरिष्येत्riṣyetभुवःbhuvaḥस्वाहाsvāhāइतिitiदक्षिणाग्नौdakṣiṇāgnauजुहुयात्juhuyātयजुषाम्yajuṣāmएवevaतत्tatरसेनrasenaयजुषाम्yajuṣāmवीर्येणvīryeṇaयजुषाम्yajuṣāmयज्ञस्यyajñasyaविरिष्टम्viriṣṭamसन्दधातिsandadhāti

अन्वय

सः यदि [यज्ञः] यजुष्टः रिष्येत्, भुवः स्वाहा इति दक्षिणाग्नौ जुहुयात् । तत् यजुषाम् एव रसेन, यजुषाम् वीर्येण, यजुषाम् यज्ञस्य विरिष्टम् सन्दधाति ।

Passage 73.6

अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं सन्दधाति ॥ ६ ॥

पदच्छेद

अथathaयदिyadiसामतःsāmataḥरिष्येत्riṣyetस्वःsvaḥस्वाहाsvāhāइतिitiआहवनीयेāhavanīyeजुहुयात्juhuyātसाम्नाम्sāmnāmएवevaतत्tatरसेनrasenaसाम्नाम्sāmnāmवीर्येणvīryeṇaसाम्नाम्sāmnāmयज्ञस्यyajñasyaविरिष्टम्viriṣṭamसन्दधातिsandadhāti

अन्वय

अथ यदि [यज्ञः] सामतः रिष्येत्, स्वः स्वाहा इति आहवनीये जुहुयात् । तत् साम्नाम् एव रसेन, साम्नाम् वीर्येण, साम्नाम् यज्ञस्य विरिष्टम् सन्दधाति ।

Passage 73.7

तद्यथा लवणेन सुवर्णꣳ सन्दध्यात्सुवर्णेन रजतꣳ रजतेन त्रपु त्रपुणा सीसꣳ सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥

पदच्छेद

तत्tatयथाyathāलवणेनlavaṇenaसुवर्णम्suvarṇamसन्दध्यात्sandadhyātसुवर्णेनsuvarṇenaरजतम्rajatamरजतेनrajatenaत्रपुtrapuत्रपुणाtrapuṇāसीसम्sīsamसीसेनsīsenaलोहम्lohamलोहेनlohenaदारुdāruदारुdāruचर्मणाcarmaṇā

अन्वय

तत् यथा लवणेन सुवर्णम् सन्दध्यात्, सुवर्णेन रजतम् [सन्दध्यात्], रजतेन त्रपु [सन्दध्यात्], त्रपुणा सीसम् [सन्दध्यात्], सीसेन लोहम् [सन्दध्यात्], लोहेन दारु [सन्दध्यात्], चर्मणा दारु [सन्दध्यात्] ।

Passage 73.8

एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टꣳ सन्दधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ८ ॥

पदच्छेद

एवम्evamएषाम्eṣāmलोकानाम्lokānāmआसाम्āsāmदेवतानाम्devatānāmअस्याःasyāḥत्रय्याःtrayyāḥविद्यायाःvidyāyāḥवीर्येणvīryeṇaयज्ञस्यyajñasyaविरिष्टम्viriṣṭamसन्दधातिsandadhātiभेषजकृतःbheṣajakṛtaḥहhaवैvaiएषःeṣaḥयज्ञःyajñaḥयत्रyatraएवम्वित्evamvitब्रह्माbrahmāभवतिbhavati

अन्वय

एवम् एषाम् लोकानाम् आसाम् देवतानाम् अस्याः त्रय्याः विद्यायाः वीर्येण यज्ञस्य विरिष्टम् सन्दधाति । यत्र एवम् विद् ब्रह्मा भवति, एषः ह वा यज्ञः भेषजकृतः [भवति] ।

Passage 73.9

एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदꣳ ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥ ९ ॥

पदच्छेद

एषःeṣaḥहhaवैvaiउदक्प्रवणःudakpravaṇaḥयज्ञःyajñaḥयत्रyatraएवम्वित्evamvitब्रह्माbrahmāभवतिbhavatiएवम्विदम्evamvidamहhaवैvaiएषाeṣāब्रह्माणम्brahmāṇamअनुगाथाanugāthāयतःyataḥयतःyataḥआवर्ततेāvartateतत्tatतत्tatगच्छतिgacchati

अन्वय

यत्र एवम् विद् ब्रह्मा भवति, एषः ह वा यज्ञः उदक्प्रवणः [भवति] । एवम् विदम् ह वा ब्रह्माणम् अनु एषा गाथा [अस्ति]—यतः यतः [ऋत्विजाम् कर्मप्रदेशात् यज्ञः] आवर्तते, [ब्रह्मा] तत् तत् गच्छति ।

Passage 73.10

मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानꣳ सर्वाꣳश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ १० ॥

पदच्छेद

मानवःmānavaḥब्रह्माbrahmāएवevaएकःekaḥऋत्विक्ṛtvikकुरून्kurūnअश्वाaśvāअभिरक्षतिabhirakṣatiएवम्वित्evamvitहhaवैvaiब्रह्माbrahmāयज्ञम्yajñamयजमानम्yajamānamसर्वान्sarvānचcaऋत्विजःṛtvijaḥअभिरक्षतिabhirakṣatiतस्मात्tasmātएवम्विदम्evamvidamएवevaब्रह्माणम्brahmāṇamकुर्वीतkurvītaनnaअनेवम्विदम्anevamvidamनnaअनेवम्विदम्anevamvidam

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 4, खण्ड 17

Read the whole section →