Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 17

संस्कृत

Passage 90.1

अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजन्निति होवाचैष वै प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ १ ॥

पदच्छेद

अथathaहhaउवाचuvācaउद्दालकम्uddālakamआरुणिम्āruṇimगौतमgautamaकम्kamत्वम्tvamआत्मानम्ātmānamउपास्सेupāsseइतिitiपृथिवीम्pṛthivīmएवevaभगवःbhagavaḥराजन्rājanइतिitiहhaउवाचuvācaएषःeṣaḥवैvaiप्रतिष्ठाpratiṣṭhāआत्माātmāवैश्वानरःvaiśvānaraḥयम्yamत्वम्tvamआत्मानम्ātmānamउपास्सेupāsseतस्मात्tasmātत्वम्tvamप्रतिष्ठितःpratiṣṭhitaḥअसिasiप्रजयाprajayāचcaपशुभिःpaśubhiḥचca

अन्वय

अथ [सः] उद्दालकम् आरुणिम् ह, गौतम, त्वम् कम् आत्मानम् उपास्से इति उवाच । [सः], भगवः राजन्, पृथिवीम् एव [उपासे] इति ह उवाच । [सः], त्वम् यम् आत्मानम् उपास्से, एषः वै प्रतिष्ठा आत्मा वैश्वानरः [अस्ति]; तस्मात् त्वम् प्रजया च पशुभिः च प्रतिष्ठितः असि [इति उवाच] ।

Passage 90.2

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति ॥ २ ॥

पदच्छेद

अत्सिatsiअन्नम्annamपश्यसिpaśyasiप्रियम्priyamअत्तिattiअन्नम्annamपश्यतिpaśyatiप्रियम्priyamभवतिbhavatiअस्यasyaब्रह्मवर्चसम्brahmavarcasamकुलेkuleयःyaḥएतम्etamएवम्evamआत्मानम्ātmānamवैश्वानरम्vaiśvānaramउपास्तेupāsteपादौpādauतुtuएतौetauआत्मनःātmanaḥइतिitiहhaउवाचuvācaपादौpādauतेteव्यम्लास्येताम्vyamlāsyetāmयत्yatमाम्māmनnaआगमिष्यःāgamiṣyaḥइतिiti

अन्वय

[त्वम्] अन्नम् अत्सि, प्रियम् पश्यसि । यः एतम् आत्मानम् वैश्वानरम् एवम् उपास्ते, [सः] अन्नम् अत्ति, प्रियम् पश्यति; अस्य कुले ब्रह्मवर्चसम् भवति । एतौ तु आत्मनः पादौ [स्तः]; यत् माम् न आगमिष्यः, ते पादौ व्यम्लास्येताम् इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 17

Read the whole section →