Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 23

संस्कृत

Passage 96.1

अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति ॥ १ ॥

पदच्छेद

अथathaयाम्yāmपञ्चमीम्pañcamīmजुहुयात्juhuyātताम्tāmजुहुयात्juhuyātउदानायudānāyaस्वाहाsvāhāइतिitiउदानःudānaḥतृप्यतिtṛpyati

अन्वय

अथ [सः] याम् पञ्चमीम् [आहुतिम्] जुहुयात्, ताम् उदानाय स्वाहा इति जुहुयात् । उदानः तृप्यति ।

Passage 96.2

उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किञ्च वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन ॥ २ ॥

पदच्छेद

उदानेudāneतृप्यतिtṛpyatiत्वक्tvakतृप्यतिtṛpyatiत्वचिtvaciतृप्यन्त्याम्tṛpyantyāmवायुःvāyuḥतृप्यतिtṛpyatiवायौvāyauतृप्यतिtṛpyatiआकाशःākāśaḥतृप्यतिtṛpyatiआकाशेākāśeतृप्यतिtṛpyatiयत्yatकिम्kimचcaवायुःvāyuḥचcaआकाशःākāśaḥचcaअधितिष्ठतःadhitiṣṭhataḥतत्tatतृप्यतिtṛpyatiतस्यtasyaअनुतृप्तिम्anutṛptimतृप्यतिtṛpyatiप्रजयाprajayāपशुभिःpaśubhiḥअन्नाद्येनannādyenaतेजसाtejasāब्रह्मवर्चसेनbrahmavarcasena

अन्वय

उदाने तृप्यति त्वक् तृप्यति; त्वचि तृप्यन्त्याम् वायुः तृप्यति; वायौ तृप्यति आकाशः तृप्यति; आकाशे तृप्यति वायुः च आकाशः च यत् किञ्च अधितिष्ठतः, तत् तृप्यति । तस्य तृप्तिम् अनु [सः] प्रजया पशुभिः अन्नाद्येन तेजसा ब्रह्मवर्चसेन तृप्यति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 23

Read the whole section →