Sunday Meditation· Open to Everyone

अध्याय 8, खण्ड 4

संस्कृत

Passage 143.1

अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसम्भेदाय नैतꣳ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतꣳ सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥

पदच्छेद

अथathaयःyaḥआत्माātmāसःsaḥसेतुःsetuḥधृतिःdhṛtiḥएषाम्eṣāmलोकानाम्lokānāmअसम्भेदायasambhedāyaनnaएतम्etamसेतुम्setumअहोरात्रेahorātreतरतःtarataḥनnaजराjarāनnaमृत्युःmṛtyuḥनnaशोकःśokaḥनnaसुकृतम्sukṛtamनnaदुष्कृतम्duṣkṛtamसर्वेsarveपाप्मानःpāpmānaḥअतःataḥनिवर्तन्तेnivartanteअपहतपाप्माapahatapāpmāहिhiएषःeṣaḥब्रह्मलोकःbrahmalokaḥ

अन्वय

अथ यः आत्मा, सः एषाम् लोकानाम् असम्भेदाय सेतुः धृतिः [अस्ति] । अहोरात्रे एतम् सेतुम् न तरतः; जरा न [तरति], मृत्युः न [तरति], शोकः न [तरति], सुकृतम् न [तरति], दुष्कृतम् न [तरति] । सर्वे पाप्मानः अतः निवर्तन्ते; हि एषः ब्रह्मलोकः अपहतपाप्मा [अस्ति] ।

Passage 143.2

तस्माद्वा एतꣳ सेतुं तीर्त्वान्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतꣳ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ २ ॥

पदच्छेद

तस्मात्tasmātवैvaiएतम्etamसेतुम्setumतीर्त्वाtīrtvāअन्धःandhaḥसन्sanअनन्धःanandhaḥभवतिbhavatiविद्धःviddhaḥसन्sanअविद्धःaviddhaḥभवतिbhavatiउपतापीupatāpīसन्sanअनुपतापीanupatāpīभवतिbhavatiतस्मात्tasmātवैvaiएतम्etamसेतुम्setumतीर्त्वाtīrtvāअपिapiनक्तम्naktamअहःahaḥएवevaअभिनिष्पद्यतेabhiniṣpadyateसकृद्विभातःsakṛdvibhātaḥहिhiएवevaएषःeṣaḥब्रह्मलोकःbrahmalokaḥ

अन्वय

तस्मात् वै एतम् सेतुम् तीर्त्वा अन्धः सन् अनन्धः भवति, विद्धः सन् अविद्धः भवति, उपतापी सन् अनुपतापी भवति । तस्मात् वै एतम् सेतुम् तीर्त्वा अपि नक्तम् अहर् एव अभिनिष्पद्यते; हि एषः ब्रह्मलोकः सकृद्विभातः एव [अस्ति] ।

Passage 143.3

तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥

पदच्छेद

तत्tatयेyeएवevaएतम्etamब्रह्मलोकम्brahmalokamब्रह्मचर्येणbrahmacaryeṇaअनुविन्दन्तिanuvindantiतेषाम्teṣāmएवevaएषःeṣaḥब्रह्मलोकःbrahmalokaḥतेषाम्teṣāmसर्वेषुsarveṣuलोकेषुlokeṣuकामचारःkāmacāraḥभवतिbhavati

अन्वय

तत् ये एव एतम् ब्रह्मलोकम् ब्रह्मचर्येण अनुविन्दन्ति, तेषाम् एव एषः ब्रह्मलोकः [अस्ति]; तेषाम् सर्वेषु लोकेषु कामचारः भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 8, खण्ड 4

Read the whole section →