Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 13

संस्कृत

Passage 86.1

अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्यं कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥ १ ॥

पदच्छेद

अथathaहhaउवाचuvācaसत्ययज्ञम्satyayajñamपौलुषिम्pauluṣimप्राचीनयोग्यprācīnayogyaकम्kamत्वम्tvamआत्मानम्ātmānamउपास्सेupāsseइतिitiआदित्यम्ādityamएवevaभगवःbhagavaḥराजन्rājanइतिitiहhaउवाचuvācaएषःeṣaḥवैvaiविश्वरूपःviśvarūpaḥआत्माātmāवैश्वानरःvaiśvānaraḥयम्yamत्वम्tvamआत्मानम्ātmānamउपास्सेupāsseतस्मात्tasmātतवtavaबहुbahuविश्वरूपम्viśvarūpamकुलेkuleदृश्यतेdṛśyate

Passage 86.2

प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुष्ट्वेतदात्मन इति होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ २ ॥

पदच्छेद

प्रवृत्तःpravṛttaḥअश्वतरीरथःaśvatarīrathaḥदासीनिष्कःdāsīniṣkaḥअत्सिatsiअन्नम्annamपश्यसिpaśyasiप्रियम्priyamअत्तिattiअन्नम्annamपश्यतिpaśyatiप्रियम्priyamभवतिbhavatiअस्यasyaब्रह्मवर्चसम्brahmavarcasamकुलेkuleयःyaḥएतम्etamएवम्evamआत्मानम्ātmānamवैश्वानरम्vaiśvānaramउपास्तेupāsteचक्षुःcakṣuḥतुtuएतत्etatआत्मनःātmanaḥइतिitiहhaउवाचuvācaअन्धःandhaḥअभविष्यःabhaviṣyaḥयत्yatमाम्māmनnaआगमिष्यःāgamiṣyaḥइतिiti

अन्वय

[त्वाम् अनु] अश्वतरीरथः प्रवृत्तः [अस्ति]; दासीनिष्कः [च प्रवृत्तः अस्ति] । [त्वम्] अन्नम् अत्सि, प्रियम् पश्यसि । यः एतम् आत्मानम् वैश्वानरम् एवम् उपास्ते, [सः] अन्नम् अत्ति, प्रियम् पश्यति; अस्य कुले ब्रह्मवर्चसम् भवति । एतत् तु आत्मनः चक्षुः [अस्ति]; यत् माम् न आगमिष्यः, [त्वम्] अन्धः अभविष्यः इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 13

Read the whole section →