Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 3

संस्कृत

Passage 16.1

वृष्टौ पञ्चविधꣳ सामोपासीत पुरोवातो हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार ॥ १ ॥

पदच्छेद

वृष्टौvṛṣṭauपञ्चविधम्pañcavidhamसामsāmaउपासीतupāsītaपुरोवातःpurovātaḥहिङ्कारःhiṅkāraḥमेघःmeghaḥजायतेjāyateसःsaḥप्रस्तावःprastāvaḥवर्षतिvarṣatiसःsaḥउद्गीथःudgīthaḥविद्योततेvidyotateस्तनयतिstanayatiसःsaḥप्रतिहारःpratihāraḥ

अन्वय

वृष्टौ पञ्चविधम् साम उपासीत । पुरोवातः हिङ्कारः [अस्ति] । मेघः जायते, सः प्रस्तावः [अस्ति] । वर्षति, सः उद्गीथः [अस्ति] । विद्योतते स्तनयति, सः प्रतिहारः [अस्ति] ।

Passage 16.2

उद्गृह्णाति तन्निधनं वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधꣳसामोपास्ते ॥ २ ॥

पदच्छेद

उद्गृह्णातिudgṛhṇātiतत्tatनिधनम्nidhanamवर्षतिvarṣatiहhaअस्मैasmaiवर्षयतिvarṣayatiहhaयःyaḥएतत्etatएवम्evamविद्वान्vidvānवृष्टौvṛṣṭauपञ्चविधम्pañcavidhamसामsāmaउपास्तेupāste

अन्वय

उद्गृह्णाति, तत् निधनम् [अस्ति] । यः एतत् एवम् विद्वान् वृष्टौ पञ्चविधम् साम उपास्ते, अस्मै ह वर्षति; [सः] ह वर्षयति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 3

Read the whole section →