Sunday Meditation· Open to Everyone

अध्याय 1, खण्ड 1

संस्कृत

Passage 1.1

ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥

पदच्छेद

ओम्omइतिitiएतत्etatअक्षरम्akṣaramउद्गीथम्udgīthamउपासीतupāsītaओम्omइतिitiहिhiउद्गायतिudgāyatiतस्यtasyaउपव्याख्यानम्upavyākhyānam

अन्वय

ओम् इति एतत् अक्षरम् उद्गीथम् उपासीत । हि ओम् इति उद्गायति । तस्य उपव्याख्यानम् [इदम् अस्ति] ।

Passage 1.2

एषां भूतानां पृथिवी रसः पृथिव्या आपो रसः अपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः ॥ २ ॥

पदच्छेद

एषाम्eṣāmभूतानाम्bhūtānāmपृथिवीpṛthivīरसःrasaḥपृथिव्याःpṛthivyāḥआपःāpaḥरसःrasaḥअपाम्apāmओषधयःoṣadhayaḥरसःrasaḥओषधीनाम्oṣadhīnāmपुरुषःpuruṣaḥरसःrasaḥपुरुषस्यpuruṣasyaवाक्vākरसःrasaḥवाचःvācaḥऋक्ṛkरसःrasaḥऋचःṛcaḥसामsāmaरसःrasaḥसाम्नःsāmnaḥउद्गीथःudgīthaḥरसःrasaḥ

अन्वय

एषाम् भूतानाम् पृथिवी रसः [अस्ति]; पृथिव्याः आपः रसः [सन्ति]; अपाम् ओषधयः रसः [सन्ति]; ओषधीनाम् पुरुषः रसः [अस्ति]; पुरुषस्य वाक् रसः [अस्ति]; वाचः ऋक् रसः [अस्ति]; ऋचः साम रसः [अस्ति]; साम्नः उद्गीथः रसः [अस्ति] ।

Passage 1.3

स एष रसानाꣳ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ ३ ॥

पदच्छेद

सःsaḥएषःeṣaḥरसानाम्rasānāmरसतमःrasatamaḥपरमःparamaḥपरार्ध्यःparārdhyaḥअष्टमःaṣṭamaḥयत्yatउद्गीथःudgīthaḥ

अन्वय

यत् उद्गीथः [अस्ति], सः एषः रसानाम् रसतमः परमः परार्ध्यः अष्टमः [अस्ति] ।

Passage 1.4

कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ ४ ॥

पदच्छेद

कतमाkatamāकतमाkatamāऋक्ṛkकतमत्katamatकतमत्katamatसामsāmaकतमःkatamaḥकतमःkatamaḥउद्गीथःudgīthaḥइतिitiविमृष्टम्vimṛṣṭamभवतिbhavati

अन्वय

कतमा कतमा ऋक्? कतमत् कतमत् साम? कतमः कतमः उद्गीथः? इति विमृष्टम् भवति ।

Passage 1.5

वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथस्तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ ५ ॥

पदच्छेद

वाक्vākएवevaऋक्ṛkप्राणःprāṇaḥसामsāmaओम्omइतिitiएतत्etatअक्षरम्akṣaramउद्गीथःudgīthaḥतत्tatवैvaiएतत्etatमिथुनम्mithunamयत्yatवाक्vākचcaप्राणःprāṇaḥचcaऋक्ṛkचcaसामsāmaचca

अन्वय

वाक् एव ऋक् [अस्ति]; प्राणः साम [अस्ति]; ओम् इति एतत् अक्षरम् उद्गीथः [अस्ति] । यत् वाक् च प्राणः च ऋक् च साम च [अस्ति], तत् वै एतत् मिथुनम् [अस्ति] ।

Passage 1.6

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सꣳ सृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥ ६ ॥

पदच्छेद

तत्tatएतत्etatमिथुनम्mithunamओम्omइतिitiएतस्मिन्etasminअक्षरेakṣareसंसृज्यतेsaṃsṛjyateयदाyadāवैvaiमिथुनौmithunauसमागच्छतःsamāgacchataḥआपयतःāpayataḥवैvaiतौtauअन्यःanyaḥअन्यस्यanyasyaकामम्kāmam

अन्वय

तत् एतत् मिथुनम् ओम् इति एतस्मिन् अक्षरे संसृज्यते । यदा वै मिथुनौ समागच्छतः, तौ वै अन्योन्यस्य कामम् आपयतः ।

Passage 1.7

आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ७ ॥

पदच्छेद

आपयिताāpayitāहhaवैvaiकामानाम्kāmānāmभवतिbhavatiयःyaḥएतत्etatएवम्evamविद्वान्vidvānअक्षरम्akṣaramउद्गीथम्udgīthamउपास्तेupāste

अन्वय

यः एतत् एवम् विद्वान् अक्षरम् उद्गीथम् उपास्ते, [सः] कामानाम् आपयिता ह वै भवति ।

Passage 1.8

तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चानुजानात्योमित्येव तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ८ ॥

पदच्छेद

तत्tatवैvaiएतत्etatअनुज्ञाक्षरम्anujñākṣaramयत्yatहिhiकिम्kimचcaअनुजानातिanujānātiओम्omइतिitiएवevaतत्tatआहāhaएषःeṣaḥउuएवevaसमृद्धिःsamṛddhiḥयत्yatअनुज्ञाanujñāसमर्धयिताsamardhayitāहhaवैvaiकामानाम्kāmānāmभवतिbhavatiयःyaḥएतत्etatएवम्evamविद्वान्vidvānअक्षरम्akṣaramउद्गीथम्udgīthamउपास्तेupāste

अन्वय

तत् वै एतत् अनुज्ञाक्षरम् [अस्ति] । यत् हि किञ्च अनुजानाति, तत् ओम् इति एव आह । यत् अनुज्ञा [अस्ति], एषः उ एव समृद्धिः [अस्ति] । यः एतत् एवम् विद्वान् अक्षरम् उद्गीथम् उपास्ते, [सः] कामानाम् समर्धयिता ह वै भवति ।

Passage 1.9

तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमितिशꣳसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन ॥ ९ ॥

पदच्छेद

तेनtenaइयम्iyamत्रयीtrayīविद्याvidyāवर्ततेvartateओम्omइतिitiआश्रावयतिāśrāvayatiओम्omइतिitiशंसतिśaṃsatiओम्omइतिitiउद्गायतिudgāyatiएतस्यetasyaएवevaअक्षरस्यakṣarasyaअपचित्यैapacityaiमहिम्नाmahimnāरसेनrasena

अन्वय

तेन इयम् त्रयीविद्या वर्तते । ओम् इति आश्रावयति; ओम् इति शंसति; ओम् इति उद्गायति । एतस्य एव अक्षरस्य अपचित्यै महिम्ना रसेन [एवम् वर्तते] ।

Passage 1.10

तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १० ॥

पदच्छेद

तेनtenaउभौubhauकुरुतःkurutaḥयःyaḥचcaएतत्etatएवम्evamवेदvedaयःyaḥचcaनnaवेदvedaनानाnānāतुtuविद्याvidyāचcaअविद्याavidyāचcaयत्yatएवevaविद्ययाvidyayāकरोतिkarotiश्रद्धयाśraddhayāउपनिषदाupaniṣadāतत्tatएवevaवीर्यवत्तरम्vīryavattaramभवतिbhavatiइतिitiखलुkhaluएतस्यetasyaएवevaअक्षरस्यakṣarasyaउपव्याख्यानम्upavyākhyānamभवतिbhavati

अन्वय

यः च एतत् एवम् वेद, यः च न वेद, उभौ तेन कुरुतः । विद्या च अविद्या च तु नाना [स्तः] । यत् एव विद्यया श्रद्धया उपनिषदा करोति, तत् एव वीर्यवत्तरम् भवति इति । खलु एतस्य एव अक्षरस्य उपव्याख्यानम् भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 1, खण्ड 1

Read the whole section →