Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 16

संस्कृत

Passage 113.1

पुरुषँ सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥

पदच्छेद

पुरुषम्puruṣamसोम्यsomyaउतutaहस्तगृहीतम्hastagṛhītamआनयन्तिānayantiअपहार्षीत्apahārṣītस्तेयम्steyamअकार्षीत्akārṣītपरशुम्paraśumअस्मैasmaiतपतtapataइतिitiसःsaḥयदिyadiतस्यtasyaकर्ताkartāभवतिbhavatiततःtataḥएवevaअनृतम्anṛtamआत्मानम्ātmānamकुरुतेkuruteसःsaḥअनृताभिसन्धःanṛtābhisandhaḥअनृतेनanṛtenaआत्मानम्ātmānamअन्तर्धायantardhāyaपरशुम्paraśumतप्तम्taptamप्रतिगृह्णातिpratigṛhṇātiसःsaḥदह्यतेdahyateअथathaहन्यतेhanyate

अन्वय

सोम्य, उत हस्तगृहीतम् पुरुषम् आनयन्ति; [अयम्] अपहार्षीत्, स्तेयम् अकार्षीत्, अस्मै परशुम् तपत इति [आहुः] । सः यदि तस्य कर्ता भवति, ततः एव आत्मानम् अनृतम् कुरुते । सः अनृताभिसन्धः अनृतेन आत्मानम् अन्तर्धाय तप्तम् परशुम् प्रतिगृह्णाति; सः दह्यते, अथ हन्यते ।

Passage 113.2

अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति सन दह्यतेऽथ मुच्यते ॥ २ ॥

पदच्छेद

अथathaयदिyadiतस्यtasyaअकर्ताakartāभवतिbhavatiततःtataḥएवevaसत्यम्satyamआत्मानम्ātmānamकुरुतेkuruteसःsaḥसत्याभिसन्धःsatyābhisandhaḥसत्येनsatyenaआत्मानम्ātmānamअन्तर्धायantardhāyaपरशुम्paraśumतप्तम्taptamप्रतिगृह्णातिpratigṛhṇātiसःsaḥनnaदह्यतेdahyateअथathaमुच्यतेmucyate

अन्वय

अथ यदि [सः] तस्य अकर्ता भवति, ततः एव आत्मानम् सत्यम् कुरुते । सः सत्याभिसन्धः सत्येन आत्मानम् अन्तर्धाय तप्तम् परशुम् प्रतिगृह्णाति; सः न दह्यते, अथ मुच्यते ।

Passage 113.3

स यथा तत्र नादाह्येतैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ३ ॥

पदच्छेद

सःsaḥयथाyathāतत्रtatraनnaआदाह्येतādāhyetaएतदात्म्यम्etadātmyamइदम्idamसर्वम्sarvamतत्tatसत्यम्satyamसःsaḥआत्माātmāतत्tatत्वम्tvamअसिasiश्वेतकेतोśvetaketoइतिitiतत्tatहhaअस्यasyaविजज्ञौvijajñauइतिitiविजज्ञौvijajñauइतिiti

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 16

Read the whole section →