Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 7

संस्कृत

Passage 120.1

विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँराशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाँश्च मनुष्याँश्च पशूँश्च वयाँसि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ १ ॥

पदच्छेद

विज्ञानम्vijñānamवावvāvaध्यानात्dhyānātभूयःbhūyaḥविज्ञानेनvijñānenaवैvaiऋग्वेदम्ṛgvedamविजानातिvijānātiयजुर्वेदम्yajurvedamसामवेदम्sāmavedamआथर्वणम्ātharvaṇamचतुर्थम्caturthamइतिहासपुराणम्itihāsapurāṇamपञ्चमम्pañcamamवेदानाम्vedānāmवेदम्vedamपित्र्यम्pitryamराशिम्rāśimदैवम्daivamनिधिम्nidhimवाकोवाक्यम्vākovākyamएकायनम्ekāyanamदेवविद्याम्devavidyāmब्रह्मविद्याम्brahmavidyāmभूतविद्याम्bhūtavidyāmक्षत्रविद्याम्kṣatravidyāmनक्षत्रविद्याम्nakṣatravidyāmसर्पदेवजनविद्याम्sarpadevajanavidyāmदिवम्divamचcaपृथिवीम्pṛthivīmचcaवायुम्vāyumचcaआकाशम्ākāśamचcaअपःapaḥचcaतेजःtejaḥचcaदेवान्devānचcaमनुष्यान्manuṣyānचcaपशून्paśūnचcaवयांसिvayāṃsiचcaतृणवनस्पतीन्tṛṇavanaspatīnश्वापदानिśvāpadāniआकीटपतङ्गपिपीलकम्ākīṭapataṅgapipīlakamधर्मम्dharmamचcaअधर्मम्adharmamचcaसत्यम्satyamचcaअनृतम्anṛtamचcaसाधुsādhuचcaअसाधुasādhuचcaहृदयज्ञम्hṛdayajñamचcaअहृदयज्ञम्ahṛdayajñamचcaअन्नम्annamचcaरसम्rasamचcaइमम्imamचcaलोकम्lokamअमुम्amumचcaविज्ञानेनvijñānenaएवevaविजानातिvijānātiविज्ञानम्vijñānamउपास्स्वupāssvaइतिiti

अन्वय

विज्ञानम् वाव ध्यानात् भूयः [अस्ति] । विज्ञानेन वा ऋग्वेदम् विजानाति, यजुर्वेदम्, सामवेदम्, चतुर्थम् आथर्वणम्, पञ्चमम् इतिहासपुराणम्, वेदानाम् वेदम्, पित्र्यम्, राशिम्, दैवम्, निधिम्, वाकोवाक्यम्, एकायनम्, देवविद्याम्, ब्रह्मविद्याम्, भूतविद्याम्, क्षत्रविद्याम्, नक्षत्रविद्याम्, सर्पदेवजनविद्याम्, दिवम् च, पृथिवीम् च, वायुम् च, आकाशम् च, अपः च, तेजः च, देवान् च, मनुष्यान् च, पशून् च, वयांसि च, तृणवनस्पतीन्, श्वापदानि, आकीटपतङ्गपिपीलकम्, धर्मम् च, अधर्मम् च, सत्यम् च, अनृतम् च, साधु च, असाधु च, हृदयज्ञम् च, अहृदयज्ञम् च, अन्नम् च, रसम् च, इमम् च लोकम्, अमुम् च विज्ञानेन एव विजानाति । विज्ञानम् उपास्स्व इति [उवाच] ।

Passage 120.2

स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

पदच्छेद

सःsaḥयःyaḥविज्ञानम्vijñānamब्रह्मbrahmaइतिitiउपास्तेupāsteविज्ञानवतःvijñānavataḥवैvaiसःsaḥलोकान्lokānज्ञानवतःjñānavataḥअभिसिध्यतिabhisidhyatiयावत्yāvatविज्ञानस्यvijñānasyaगतम्gatamतत्रtatraअस्यasyaयथाकामचारःyathākāmacāraḥभवतिbhavatiयःyaḥविज्ञानम्vijñānamब्रह्मbrahmaइतिitiउपास्तेupāsteअस्तिastiभगवःbhagavaḥविज्ञानात्vijñānātभूयःbhūyaḥइतिitiविज्ञानात्vijñānātवावvāvaभूयःbhūyaḥअस्तिastiइतिitiतत्tatमेmeभगवान्bhagavānब्रवीतुbravītuइतिiti

अन्वय

सः यः विज्ञानम् ब्रह्म इति उपास्ते, सः विज्ञानवतः ज्ञानवतः लोकान् वै अभिसिध्यति । यावत् विज्ञानस्य गतम् [अस्ति], तत्र अस्य यथाकामचारः भवति—यः विज्ञानम् ब्रह्म इति उपास्ते । [नारदः], भगवः, विज्ञानात् भूयः अस्ति इति [पप्रच्छ] । [सनत्कुमारः], विज्ञानात् वाव भूयः अस्ति इति [उवाच] । [नारदः], तत् मे भगवान् ब्रवीतु इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 7

Read the whole section →