Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 3

संस्कृत

Passage 100.1

तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ १ ॥

पदच्छेद

तेषाम्teṣāmखलुkhaluएषाम्eṣāmभूतानाम्bhūtānāmत्रीणिtrīṇiएवevaबीजानिbījāniभवन्तिbhavantiआण्डजम्āṇḍajamजीवजम्jīvajamउद्भिज्जम्udbhijjamइतिiti

अन्वय

तेषाम् खलु एषाम् भूतानाम् त्रीणि एव बीजानि भवन्ति—आण्डजम्, जीवजम्, उद्भिज्जम् इति ।

Passage 100.2

सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ २ ॥

पदच्छेद

साsāइयम्iyamदेवताdevatāऐक्षतaikṣataहन्तhantaअहम्ahamइमाःimāḥतिस्रःtisraḥदेवताःdevatāḥअनेनanenaजीवेनjīvenaआत्मनाātmanāअनुप्रविश्यanupraviśyaनामरूपेnāmarūpeव्याकरवाणिvyākaravāṇiइतिiti

अन्वय

सा इयम् देवता, हन्त अहम् इमाः तिस्रः देवताः अनेन जीवेन आत्मना अनुप्रविश्य नामरूपे व्याकरवाणि इति ऐक्षत ।

Passage 100.3

तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ॥ ३ ॥

पदच्छेद

तासाम्tāsāmत्रिवृतम्trivṛtamत्रिवृतम्trivṛtamएकैकाम्ekaikāmकरवाणिkaravāṇiइतिitiसाsāइयम्iyamदेवताdevatāइमाःimāḥतिस्रःtisraḥदेवताःdevatāḥअनेनanenaएवevaजीवेनjīvenaआत्मनाātmanāअनुप्रविश्यanupraviśyaनामरूपेnāmarūpeव्याकरोत्vyākarot

अन्वय

[सा], तासाम् एकैकाम् त्रिवृतम् त्रिवृतम् करवाणि इति [ऐक्षत] । सा इयम् देवता इमाः तिस्रः देवताः अनेन एव जीवेन आत्मना अनुप्रविश्य नामरूपे व्याकरोत् ।

Passage 100.4

तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ४ ॥

पदच्छेद

तासाम्tāsāmत्रिवृतम्trivṛtamत्रिवृतम्trivṛtamएकैकाम्ekaikāmअकरोत्akarotयथाyathāतुtuखलुkhaluसोम्यsomyaइमाःimāḥतिस्रःtisraḥदेवताःdevatāḥत्रिवृत्trivṛtत्रिवृत्trivṛtएकैकाekaikāभवतिbhavatiतत्tatमेmeविजानीहिvijānīhiइतिiti

अन्वय

[सा] तासाम् एकैकाम् त्रिवृतम् त्रिवृतम् अकरोत् । सोम्य, यथा तु खलु इमाः तिस्रः देवताः एकैका त्रिवृत् त्रिवृत् भवति, तत् मे [निगदतः] विजानीहि इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 3

Read the whole section →