Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 3

संस्कृत

Passage 40.1

अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥

पदच्छेद

अथathaयेyeअस्यasyaप्रत्यञ्चःpratyañcaḥरश्मयःraśmayaḥताःtāḥएवevaअस्यasyaप्रतीच्यःpratīcyaḥमधुनाड्यःmadhunāḍyaḥसामानिsāmāniएवevaमधुकृतःmadhukṛtaḥसामवेदःsāmavedaḥएवevaपुष्पम्puṣpamताःtāḥअमृताःamṛtāḥआपःāpaḥ

अन्वय

अथ अस्य ये प्रत्यञ्चः रश्मयः [सन्ति], ताः एव अस्य प्रतीच्यः मधुनाड्यः [सन्ति] । सामानि एव मधुकृतः [सन्ति]; सामवेदः एव पुष्पम् [अस्ति]; ताः अमृताः आपः [सन्ति] ।

Passage 40.2

तानि वा एतानि सामान्येतꣳसामवेदमभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳरसोऽजायत ॥ २ ॥

पदच्छेद

तानिtāniवैvaiएतानिetāniसामानिsāmāniएतम्etamसामवेदम्sāmavedamअभ्यतपन्abhyatapanतस्यtasyaअभितप्तस्यabhitaptasyaयशःyaśaḥतेजःtejaḥइन्द्रियम्indriyamवीर्यम्vīryamअन्नाद्यम्annādyamरसःrasaḥअजायतajāyata

अन्वय

तानि वा एतानि सामानि एतम् सामवेदम् अभ्यतपन् । अभितप्तस्य तस्य यशः तेजः इन्द्रियम् वीर्यम् अन्नाद्यम् [इति] रसः अजायत ।

Passage 40.3

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य कृष्णꣳरूपम् ॥ ३ ॥

पदच्छेद

तत्tatव्यक्षरत्vyakṣaratतत्tatआदित्यम्ādityamअभितःabhitaḥअश्रयत्aśrayatतत्tatवैvaiएतत्etatयत्yatएतत्etatआदित्यस्यādityasyaकृष्णम्kṛṣṇamरूपम्rūpam

अन्वय

तत् व्यक्षरत्; तत् आदित्यम् अभितः अश्रयत् । यत् एतत् आदित्यस्य कृष्णम् रूपम् [अस्ति], तत् वा एतत् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 3

Read the whole section →