Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 14

संस्कृत

Passage 127.1

आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्राँश्च पशूँश्चेच्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥ १ ॥

पदच्छेद

आशाāśāवावvāvaस्मरात्smarātभूयसीbhūyasīआशाāśāइद्धःiddhaḥवैvaiस्मरःsmaraḥमन्त्रान्mantrānअधीतेadhīteकर्माणिkarmāṇiकुरुतेkuruteपुत्रान्putrānचcaपशून्paśūnचcaइच्छतेicchateइमम्imamचcaलोकम्lokamअमुम्amumचcaइच्छतेicchateआशाम्āśāmउपास्स्वupāssvaइतिiti

अन्वय

आशा वाव स्मरात् भूयसी [अस्ति] । आशेद्धः वै स्मरः मन्त्रान् अधीते, कर्माणि कुरुते, पुत्रान् च पशून् च इच्छते, इमम् च लोकम् अमुम् च इच्छते । आशाम् उपास्स्व इति [उवाच] ।

Passage 127.2

स य आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

पदच्छेद

सःsaḥयःyaḥआशाम्āśāmब्रह्मbrahmaइतिitiउपास्तेupāsteआशयाāśayāअस्यasyaसर्वेsarveकामाःkāmāḥसमृध्यन्तिsamṛdhyantiअमोघाःamoghāḥहhaअस्यasyaआशिषःāśiṣaḥभवन्तिbhavantiयावत्yāvatआशायाःāśāyāḥगतम्gatamतत्रtatraअस्यasyaयथाकामचारःyathākāmacāraḥभवतिbhavatiयःyaḥआशाम्āśāmब्रह्मbrahmaइतिitiउपास्तेupāsteअस्तिastiभगवःbhagavaḥआशायाःāśāyāḥभूयःbhūyaḥइतिitiआशायाःāśāyāḥवावvāvaभूयःbhūyaḥअस्तिastiइतिitiतत्tatमेmeभगवान्bhagavānब्रवीतुbravītuइतिiti

अन्वय

सः यः आशाम् ब्रह्म इति उपास्ते, अस्य सर्वे कामाः आशया समृध्यन्ति; अस्य आशिषः ह अमोघाः भवन्ति । यावत् आशायाः गतम् [अस्ति], तत्र अस्य यथाकामचारः भवति—यः आशाम् ब्रह्म इति उपास्ते । [नारदः], भगवः, आशायाः भूयः अस्ति इति [पप्रच्छ] । [सनत्कुमारः], आशायाः वाव भूयः अस्ति इति [उवाच] । [नारदः], तत् मे भगवान् ब्रवीतु इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 14

Read the whole section →