Sunday Meditation· Open to Everyone

अध्याय 4, खण्ड 13

संस्कृत

Passage 69.1

अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamआहवनीयःāhavanīyaḥअनुशशासanuśaśāsaप्राणःprāṇaḥआकाशःākāśaḥद्यौःdyauḥविद्युत्vidyutइतिitiयःyaḥएषःeṣaḥविद्युतिvidyutiपुरुषःpuruṣaḥदृश्यतेdṛśyateसःsaḥअहम्ahamअस्मिasmiसःsaḥएवevaअहम्ahamअस्मिasmiइतिiti

अन्वय

अथ ह आहवनीयः एनम् अनुशशास—प्राणः, आकाशः, द्यौः, विद्युत् इति [मम तनवः सन्ति] । यः एषः विद्युति पुरुषः दृश्यते, सः अहम् अस्मि; सः एव अहम् अस्मि इति ।

Passage 69.2

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥

पदच्छेद

सःsaḥयःyaḥएतम्etamएवम्evamविद्वान्vidvānउपास्तेupāsteअपहतेapahateपापकृत्याम्pāpakṛtyāmलोकीlokīभवतिbhavatiसर्वम्sarvamआयुःāyuḥएतिetiज्योक्jyokजीवतिjīvatiनnaअस्यasyaअवरपुरुषाःavarapuruṣāḥक्षीयन्तेkṣīyanteउपupaवयम्vayamतम्tamभुञ्जामःbhuñjāmaḥअस्मिन्asminचcaलोकेlokeअमुष्मिन्amuṣminचcaयःyaḥएतम्etamएवम्evamविद्वान्vidvānउपास्तेupāste

अन्वय

यः एतम् एवम् विद्वान् उपास्ते, सः पापकृत्याम् अपहते; लोकी भवति; सर्वम् आयुः एति; ज्योक् जीवति; अस्य अवरपुरुषाः न क्षीयन्ते । यः एतम् एवम् विद्वान् उपास्ते, तम् वयम् अस्मिन् च लोके अमुष्मिन् च [लोके] उप भुञ्जामः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 4, खण्ड 13

Read the whole section →