Sunday Meditation· Open to Everyone

अध्याय 4, खण्ड 6

संस्कृत

Passage 62.1

अग्निष्टे पादं वक्तेति स ह श्वोभूते गा आभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥

पदच्छेद

अग्निःagniḥतेteपादम्pādamवक्ताvaktāइतिitiसःsaḥहhaश्वःśvaḥभूतेbhūteगाःgāḥआभिप्रस्थापयाम्ābhiprasthāpayāmचकारcakāraताःtāḥयत्रyatraअभिसायम्abhisāyamबभूवुःbabhūvuḥतत्रtatraअग्निम्agnimउपसमाधायupasamādhāyaगाःgāḥउपरुध्यuparudhyaसमिधम्samidhamआधायādhāyaपश्चात्paścātअग्नेःagneḥप्राङ्prāṅउपोपविवेशupopaviveśa

Passage 62.2

तमग्निरभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥

पदच्छेद

तम्tamअग्निःagniḥअभ्युवादabhyuvādaसत्यकाम३satyakāma3इतिitiभगवःbhagavaḥइतिitiहhaप्रतिशुश्रावpratiśuśrāva

अन्वय

तम् अग्निः अभ्युवाद—सत्यकाम३ इति । भगवः इति [सत्यकामः] ह प्रतिशुश्राव ।

Passage 62.3

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ३ ॥

पदच्छेद

ब्रह्मणःbrahmaṇaḥसोम्यsomyaतेteपादम्pādamब्रवाणिbravāṇiइतिitiब्रवीतुbravītuमेmeभगवान्bhagavānइतिitiतस्मैtasmaiहhaउवाचuvācaपृथिवीpṛthivīकलाkalāअन्तरिक्षम्antarikṣamकलाkalāद्यौःdyauḥकलाkalāसमुद्रःsamudraḥकलाkalāएषःeṣaḥवैvaiसोम्यsomyaचतुष्कलःcatuṣkalaḥपादःpādaḥब्रह्मणःbrahmaṇaḥअनन्तवान्anantavānनामnāma

अन्वय

[अग्निः आह—] सोम्य, ब्रह्मणः ते पादम् ब्रवाणि इति । [सत्यकामः आह—] भगवान् मे ब्रवीतु इति । [अग्निः] तस्मै ह उवाच—पृथिवी कला [अस्ति]; अन्तरिक्षम् कला [अस्ति]; द्यौः कला [अस्ति]; समुद्रः कला [अस्ति] । सोम्य, वै एषः ब्रह्मणः चतुष्कलः पादः अनन्तवान् नाम [अस्ति] ।

Passage 62.4

स य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिꣳल्लोके भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४ ॥

पदच्छेद

सःsaḥयःyaḥएतम्etamएवम्evamविद्वान्vidvānचतुष्कलम्catuṣkalamपादम्pādamब्रह्मणःbrahmaṇaḥअनन्तवान्anantavānइतिitiउपास्तेupāsteअनन्तवान्anantavānअस्मिन्asminलोकेlokeभवतिbhavatiअनन्तवतःanantavataḥहhaलोकान्lokānजयतिjayatiयःyaḥएतम्etamएवम्evamविद्वान्vidvānचतुष्कलम्catuṣkalamपादम्pādamब्रह्मणःbrahmaṇaḥअनन्तवान्anantavānइतिitiउपास्तेupāste

अन्वय

यः एतम् ब्रह्मणः चतुष्कलम् पादम् एवम् विद्वान् अनन्तवान् इति उपास्ते, सः अस्मिन् लोके अनन्तवान् भवति । यः एतम् ब्रह्मणः चतुष्कलम् पादम् एवम् विद्वान् अनन्तवान् इति उपास्ते, [सः] ह अनन्तवतः लोकान् जयति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 4, खण्ड 6

Read the whole section →