Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 10

संस्कृत

Passage 23.1

अथ खल्वात्मसंमितमतिमृत्यु सप्तविधꣳ सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥

पदच्छेद

अथathaखलुkhaluआत्मसंमितम्ātmasaṃmitamअतिमृत्युatimṛtyuसप्तविधम्saptavidhamसामsāmaउपासीतupāsītaहिङ्कारःhiṅkāraḥइतिitiत्र्यक्षरम्tryakṣaramप्रस्तावःprastāvaḥइतिitiत्र्यक्षरम्tryakṣaramतत्tatसमम्samam

अन्वय

अथ खलु आत्मसंमितम् अतिमृत्यु सप्तविधम् साम उपासीत । हिङ्कारः इति त्र्यक्षरम् [अस्ति]; प्रस्तावः इति त्र्यक्षरम् [अस्ति]; तत् समम् [अस्ति] ।

Passage 23.2

आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २ ॥

पदच्छेद

आदिःādiḥइतिitiद्व्यक्षरम्dvyakṣaramप्रतिहारःpratihāraḥइतिitiचतुरक्षरम्caturakṣaramततःtataḥइहihaएकम्ekamतत्tatसमम्samam

अन्वय

आदिः इति द्व्यक्षरम् [अस्ति]; प्रतिहारः इति चतुरक्षरम् [अस्ति] । ततः [प्रतिहारस्य अक्षरेभ्यः] इह [आदेः अक्षरयोः] एकम् [अक्षरम् प्रक्षिप्यते]; तत् समम् [अस्ति] ।

Passage 23.3

उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ॥ ३ ॥

पदच्छेद

उद्गीथःudgīthaḥइतिitiत्र्यक्षरम्tryakṣaramउपद्रवःupadravaḥइतिitiचतुरक्षरम्caturakṣaramत्रिभिःtribhiḥत्रिभिःtribhiḥसमम्samamभवतिbhavatiअक्षरम्akṣaramअतिशिष्यतेatiśiṣyateत्र्यक्षरम्tryakṣaramतत्tatसमम्samam

अन्वय

उद्गीथः इति त्र्यक्षरम् [अस्ति]; उपद्रवः इति चतुरक्षरम् [अस्ति] । त्रिभिः त्रिभिः समम् भवति; अक्षरम् अतिशिष्यते । [तस्य अतिशिष्टस्य एकस्य अक्षरस्य अक्षरम् इति नाम] त्र्यक्षरम् [अस्ति]; तत् समम् [अस्ति] ।

Passage 23.4

निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविꣳशतिरक्षराणि ॥ ४ ॥

पदच्छेद

निधनम्nidhanamइतिitiत्र्यक्षरम्tryakṣaramतत्tatसमम्samamएवevaभवतिbhavatiतानिtāniहhaवैvaiएतानिetāniद्वाविंशतिःdvāviṃśatiḥअक्षराणिakṣarāṇi

अन्वय

निधनम् इति त्र्यक्षरम् [अस्ति]; तत् समम् एव भवति । तानि ह वा एतानि द्वाविंशतिः अक्षराणि [सन्ति] ।

Passage 23.5

एकविꣳशत्यादित्यमाप्नोत्येकविꣳशो वा इतोऽसावादित्यो द्वाविꣳशेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ ५ ॥

पदच्छेद

एकविंशत्याekaviṃśatyāआदित्यम्ādityamआप्नोतिāpnotiएकविंशःekaviṃśaḥवैvaiइतःitaḥअसौasauआदित्यःādityaḥद्वाविंशेनdvāviṃśenaपरम्paramआदित्यात्ādityātजयतिjayatiतत्tatनाकम्nākamतत्tatविशोकम्viśokam

अन्वय

एकविंशत्या [अक्षरसंख्यया] आदित्यम् आप्नोति । इतः असौ आदित्यः एकविंशः वा [अस्ति] । द्वाविंशेन [अक्षरेण] आदित्यात् परम् जयति । तत् नाकम् [अस्ति]; तत् विशोकम् [अस्ति] ।

Passage 23.6

आप्नोति हादित्यस्य जयं परो हास्यादित्यजयाज्जयो भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु सप्तविधꣳ सामोपास्ते सामोपास्ते ॥ ६ ॥

पदच्छेद

आप्नोतिāpnotiहhaआदित्यस्यādityasyaजयम्jayamपरःparaḥहhaअस्यasyaआदित्यजयात्ādityajayātजयःjayaḥभवतिbhavatiयःyaḥएतत्etatएवम्evamविद्वान्vidvānआत्मसंमितम्ātmasaṃmitamअतिमृत्युatimṛtyuसप्तविधम्saptavidhamसामsāmaउपास्तेupāsteसामsāmaउपास्तेupāste

अन्वय

यः एतत् एवम् विद्वान् आत्मसंमितम् अतिमृत्यु सप्तविधम् साम उपास्ते, [सः] ह आदित्यस्य जयम् आप्नोति; अस्य जयः आदित्यजयात् परः ह भवति । साम उपास्ते [इति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 10

Read the whole section →