Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 9

संस्कृत

Passage 82.1

इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥ १ ॥

पदच्छेद

इतिitiतुtuपञ्चम्याम्pañcamyāmआहुतौāhutauआपःāpaḥपुरुषवचसःpuruṣavacasaḥभवन्तिbhavantiइतिitiसःsaḥउल्बावृतःulbāvṛtaḥगर्भःgarbhaḥदशdaśaवाvāनवnavaवाvāमासान्māsānअन्तःantaḥशयित्वाśayitvāयावत्yāvatवाvāअथathaजायतेjāyate

अन्वय

इति तु पञ्चम्याम् आहुतौ आपः पुरुषवचसः भवन्ति इति । सः उल्बावृतः गर्भः दश वा नव वा मासान् अन्तः शयित्वा, यावत् वा [कालम् शयित्वा], अथ जायते ।

Passage 82.2

स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति ॥ २ ॥

पदच्छेद

सःsaḥजातःjātaḥयावत्yāvatआयुषम्āyuṣamजीवतिjīvatiतम्tamप्रेतम्pretamदिष्टम्diṣṭamइतःitaḥअग्नयेagnayeएवevaहरन्तिharantiयतःyataḥएवevaइतःitaḥयतःyataḥसम्भूतःsambhūtaḥभवतिbhavati

अन्वय

सः जातः यावदायुषम् जीवति । तम् प्रेतम् दिष्टम् इतः अग्नये एव [जनाः] हरन्ति—यतः एव [अग्नेः] इतः [आगतः], यतः सम्भूतः भवति, [तस्मै अग्नये] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 9

Read the whole section →