Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 16

संस्कृत

Passage 53.1

पुरुषो वाव यज्ञस्तस्य यानि चतुर्विꣳशतिवर्षाणि तत्प्रातःसवनं चतुर्विꣳशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदꣳसर्वं वासयन्ति ॥ १ ॥

पदच्छेद

पुरुषःpuruṣaḥवावvāvaयज्ञःyajñaḥतस्यtasyaयानिyāniचतुर्विंशतिवर्षाणिcaturviṃśativarṣāṇiतत्tatप्रातःसवनम्prātaḥsavanamचतुर्विंशत्यक्षराcaturviṃśatyakṣarāगायत्रीgāyatrīगायत्रम्gāyatramप्रातःसवनम्prātaḥsavanamतत्tatअस्यasyaवसवःvasavaḥअन्वायत्ताःanvāyattāḥप्राणाःprāṇāḥवावvāvaवसवःvasavaḥएतेeteहिhiइदम्idamसर्वम्sarvamवासयन्तिvāsayanti

अन्वय

पुरुषः वाव यज्ञः [अस्ति] । तस्य यानि चतुर्विंशतिवर्षाणि [सन्ति], तत् प्रातःसवनम् [अस्ति] । गायत्री चतुर्विंशत्यक्षरा [अस्ति]; प्रातःसवनम् गायत्रम् [अस्ति] । अस्य तत् वसवः अन्वायत्ताः [सन्ति] । प्राणाः वाव वसवः [सन्ति]; हि एते इदम् सर्वम् वासयन्ति ।

Passage 53.2

तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा वसव इदं मे प्रातःसवनं माध्यन्दिनꣳसवनमनुसन्तनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ २ ॥

पदच्छेद

तम्tamचेत्cetएतस्मिन्etasminवयसिvayasiकिञ्चित्kiñcitउपतपेत्upatapetसःsaḥब्रूयात्brūyātप्राणाःprāṇāḥवसवःvasavaḥइदम्idamमेmeप्रातःसवनम्prātaḥsavanamमाध्यन्दिनम्mādhyandinamसवनम्savanamअनुसन्तनुतanusantanutaइतिitiमाmāअहम्ahamप्राणानाम्prāṇānāmवसूनाम्vasūnāmमध्येmadhyeयज्ञःyajñaḥविलोप्सीयvilopsīyaइतिitiउत्utहhaएवevaततःtataḥएतिetiअगदःagadaḥहhaभवतिbhavati

अन्वय

चेत् एतस्मिन् वयसि तम् किम् चित् उपतपेत्, सः ब्रूयात्—प्राणाः वसवः, मे इदम् प्रातःसवनम् माध्यन्दिनम् सवनम् अनुसन्तनुत इति; अहम् प्राणानाम् वसूनाम् मध्ये यज्ञः मा विलोप्सीय इति । ततः ह एव उत् एति; अगदः ह भवति ।

Passage 53.3

अथ यानि चतुश्चत्वारिꣳशद्वर्षाणि तन्माध्यंदिनꣳसवनं चतुश्चत्वारिꣳशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यन्दिनꣳसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदꣳसर्वꣳरोदयन्ति ॥ ३ ॥

पदच्छेद

अथathaयानिyāniचतुश्चत्वारिंशद्वर्षाणिcatuścatvāriṃśadvarṣāṇiतत्tatमाध्यन्दिनम्mādhyandinamसवनम्savanamचतुश्चत्वारिंशदक्षराcatuścatvāriṃśadakṣarāत्रिष्टुप्triṣṭupत्रैष्टुभम्traiṣṭubhamमाध्यन्दिनम्mādhyandinamसवनम्savanamतत्tatअस्यasyaरुद्राःrudrāḥअन्वायत्ताःanvāyattāḥप्राणाःprāṇāḥवावvāvaरुद्राःrudrāḥएतेeteहिhiइदम्idamसर्वम्sarvamरोदयन्तिrodayanti

अन्वय

अथ यानि चतुश्चत्वारिंशद्वर्षाणि [सन्ति], तत् माध्यंदिनम् सवनम् [अस्ति] । त्रिष्टुप् चतुश्चत्वारिंशदक्षरा [अस्ति]; माध्यन्दिनम् सवनम् त्रैष्टुभम् [अस्ति] । अस्य तत् रुद्राः अन्वायत्ताः [सन्ति] । प्राणाः वाव रुद्राः [सन्ति]; हि एते इदम् सर्वम् रोदयन्ति ।

Passage 53.4

तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यन्दिनꣳसवनं तृतीयसवनमनुसन्तनुतेति माहं प्राणानाꣳरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ४ ॥

पदच्छेद

तम्tamचेत्cetएतस्मिन्etasminवयसिvayasiकिञ्चित्kiñcitउपतपेत्upatapetसःsaḥब्रूयात्brūyātप्राणाःprāṇāḥरुद्राःrudrāḥइदम्idamमेmeमाध्यन्दिनम्mādhyandinamसवनम्savanamतृतीयसवनम्tṛtīyasavanamअनुसन्तनुतanusantanutaइतिitiमाmāअहम्ahamप्राणानाम्prāṇānāmरुद्राणाम्rudrāṇāmमध्येmadhyeयज्ञःyajñaḥविलोप्सीयvilopsīyaइतिitiउत्utहhaएवevaततःtataḥएतिetiअगदःagadaḥहhaभवतिbhavati

अन्वय

चेत् एतस्मिन् वयसि तम् किम् चित् उपतपेत्, सः ब्रूयात्—प्राणाः रुद्राः, मे इदम् माध्यन्दिनम् सवनम् तृतीयसवनम् अनुसन्तनुत इति; अहम् प्राणानाम् रुद्राणाम् मध्ये यज्ञः मा विलोप्सीय इति । ततः ह एव उत् एति; अगदः ह भवति ।

Passage 53.5

अथ यान्यष्टाचत्वारिꣳशद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिꣳशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावादित्या एते हीदꣳसर्वमाददते ॥ ५ ॥

पदच्छेद

अथathaयानिyāniअष्टाचत्वारिंशद्वर्षाणिaṣṭācatvāriṃśadvarṣāṇiतत्tatतृतीयसवनम्tṛtīyasavanamअष्टाचत्वारिंशदक्षराaṣṭācatvāriṃśadakṣarāजगतीjagatīजागतम्jāgatamतृतीयसवनम्tṛtīyasavanamतत्tatअस्यasyaआदित्याःādityāḥअन्वायत्ताःanvāyattāḥप्राणाःprāṇāḥवावvāvaआदित्याःādityāḥएतेeteहिhiइदम्idamसर्वम्sarvamआददतेādadate

अन्वय

अथ यानि अष्टाचत्वारिंशद्वर्षाणि [सन्ति], तत् तृतीयसवनम् [अस्ति] । जगती अष्टाचत्वारिंशदक्षरा [अस्ति]; तृतीयसवनम् जागतम् [अस्ति] । अस्य तत् आदित्याः अन्वायत्ताः [सन्ति] । प्राणाः वाव आदित्याः [सन्ति]; हि एते इदम् सर्वम् आददते ।

Passage 53.6

तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो हैव भवति ॥ ६ ॥

पदच्छेद

तम्tamचेत्cetएतस्मिन्etasminवयसिvayasiकिञ्चित्kiñcitउपतपेत्upatapetसःsaḥब्रूयात्brūyātप्राणाःprāṇāḥआदित्याःādityāḥइदम्idamमेmeतृतीयसवनम्tṛtīyasavanamआयुःāyuḥअनुसन्तनुतanusantanutaइतिitiमाmāअहम्ahamप्राणानाम्prāṇānāmआदित्यानाम्ādityānāmमध्येmadhyeयज्ञःyajñaḥविलोप्सीयvilopsīyaइतिitiउत्utहhaएवevaततःtataḥएतिetiअगदःagadaḥहhaएवevaभवतिbhavati

अन्वय

चेत् एतस्मिन् वयसि तम् किम् चित् उपतपेत्, सः ब्रूयात्—प्राणाः आदित्याः, मे इदम् तृतीयसवनम् आयुः अनुसंतनुत इति; अहम् प्राणानाम् आदित्यानाम् मध्ये यज्ञः मा विलोप्सीय इति । ततः ह एव उत् एति; अगदः ह एव भवति ।

Passage 53.7

एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ७ ॥

पदच्छेद

एतत्etatहhaस्मsmaवैvaiतत्tatविद्वान्vidvānआहāhaमहिदासःmahidāsaḥऐतरेयःaitareyaḥसःsaḥकिम्kimमेmeएतत्etatउपतपसिupatapasiयःyaḥअहम्ahamअनेनanenaनnaप्रेष्यामिpreṣyāmiइतिitiसःsaḥहhaषोडशम्ṣoḍaśamवर्षशतम्varṣaśatamअजीवत्ajīvatप्रpraहhaषोडशम्ṣoḍaśamवर्षशतम्varṣaśatamजीवतिjīvatiयःyaḥएवम्evamवेदveda

अन्वय

तत् विद्वान् ऐतरेयः महिदासः एतत् ह स्म वै आह—सः [त्वम्] मे एतत् किम् उपतपसि, यः अहम् अनेन न प्रेष्यामि इति । सः ह षोडशम् वर्षशतम् अजीवत् । यः एवम् वेद, [सः] ह षोडशम् वर्षशतम् प्र जीवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 16

Read the whole section →