Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 19

संस्कृत

Passage 92.1

तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयँ स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति प्राणस्तृप्यति ॥ १ ॥

पदच्छेद

तत्tatयत्yatभक्तम्bhaktamप्रथमम्prathamamआगच्छेत्āgacchetतत्tatहोमीयम्homīyamसःsaḥयाम्yāmप्रथमाम्prathamāmआहुतिम्āhutimजुहुयात्juhuyātताम्tāmजुहुयात्juhuyātप्राणायprāṇāyaस्वाहाsvāhāइतिitiप्राणःprāṇaḥतृप्यतिtṛpyati

अन्वय

तत् यत् भक्तम् प्रथमम् आगच्छेत्, तत् होमीयम् [अस्ति] । सः याम् प्रथमाम् आहुतिम् जुहुयात्, ताम् प्राणाय स्वाहा इति जुहुयात् । प्राणः तृप्यति ।

Passage 92.2

प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥२॥

पदच्छेद

प्राणेprāṇeतृप्यतिtṛpyatiचक्षुःcakṣuḥतृप्यतिtṛpyatiचक्षुषिcakṣuṣiतृप्यतिtṛpyatiआदित्यःādityaḥतृप्यतिtṛpyatiआदित्येādityeतृप्यतिtṛpyatiद्यौःdyauḥतृप्यतिtṛpyatiदिविdiviतृप्यन्त्याम्tṛpyantyāmयत्yatकिम्kimचcaद्यौःdyauḥचcaआदित्यःādityaḥचcaअधितिष्ठतःadhitiṣṭhataḥतत्tatतृप्यतिtṛpyatiतस्यtasyaअनुतृप्तिम्anutṛptimतृप्यतिtṛpyatiप्रजयाprajayāपशुभिःpaśubhiḥअन्नाद्येनannādyenaतेजसाtejasāब्रह्मवर्चसेनbrahmavarcasenaइतिiti

अन्वय

प्राणे तृप्यति चक्षुः तृप्यति; चक्षुषि तृप्यति आदित्यः तृप्यति; आदित्ये तृप्यति द्यौः तृप्यति; दिवि तृप्यन्त्याम् द्यौः च आदित्यः च यत् किञ्च अधितिष्ठतः, तत् तृप्यति । तस्य तृप्तिम् अनु [सः] प्रजया पशुभिः अन्नाद्येन तेजसा ब्रह्मवर्चसेन तृप्यति इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 19

Read the whole section →