Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 7

संस्कृत

Passage 104.1

षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत इति ॥ १ ॥

पदच्छेद

षोडशकलःṣoḍaśakalaḥसोम्यsomyaपुरुषःpuruṣaḥपञ्चदशpañcadaśaअहानिahāniमाmāआशीःāśīḥकामम्kāmamअपःapaḥपिबpibaआपोमयःāpomayaḥप्राणःprāṇaḥनnaपिबतःpibataḥविच्छेत्स्यतेvicchetsyateइतिiti

अन्वय

सोम्य, पुरुषः षोडशकलः [अस्ति] । पञ्चदश अहानि मा अशीः; कामम् अपः पिब; पिबतः [ते] आपोमयः प्राणः न विच्छेत्स्यते इति ।

Passage 104.2

स ह पञ्चदशाहानि नाशाथ हैनमुपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूँषि सामानीति स होवाच न वै मा प्रतिभान्ति भो इति ॥ २ ॥

पदच्छेद

सःsaḥहhaपञ्चदशpañcadaśaअहानिahāniनnaआशāśaअथathaहhaएनम्enamउपससादupasasādaकिम्kimब्रवीमिbravīmiभोःbhoḥइतिitiऋचःṛcaḥसोम्यsomyaयजूंषिyajūṃṣiसामानिsāmāniइतिitiसःsaḥहhaउवाचuvācaनnaवैvaiमाmāप्रतिभान्तिpratibhāntiभोःbhoḥइतिiti

अन्वय

सः ह पञ्चदश अहानि न आश । अथ ह एनम् उपससाद; भोः, किम् ब्रवीमि इति [उवाच] । सोम्य, ऋचः यजूंषि सामानि [अधीष्व] इति [पिता उवाच] । सः ह, भोः, मा न वै प्रतिभान्ति इति उवाच ।

Passage 104.3

तँ होवाच यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु दहेदेवँसोम्य ते षोडशानां कलानामेका कलातिशिष्टा स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ ३ ॥

पदच्छेद

तम्tamहhaउवाचuvācaयथाyathāसोम्यsomyaमहतःmahataḥअभ्याहितस्यabhyāhitasyaएकःekaḥअङ्गारःaṅgāraḥखद्योतमात्रःkhadyotamātraḥपरिशिष्टःpariśiṣṭaḥस्यात्syātतेनtenaततःtataḥअपिapiनnaबहुbahuदहेत्dahetएवम्evamसोम्यsomyaतेteषोडशानाम्ṣoḍaśānāmकलानाम्kalānāmएकाekāकलाkalāअतिशिष्टाatiśiṣṭāस्यात्syātतयाtayāएतर्हिetarhiवेदान्vedānनnaअनुभवसिanubhavasiअशानaśānaअथathaमेmeविज्ञास्यसिvijñāsyasiइतिiti

अन्वय

[पिता] तम् ह उवाच—सोम्य, यथा महतः अभ्याहितस्य [अग्नेः] एकः खद्योतमात्रः अङ्गारः परिशिष्टः स्यात्, तेन ततः अपि बहु न दहेत्, एवम् सोम्य ते षोडशानाम् कलानाम् एका कला अतिशिष्टा स्यात् । तया एतर्हि [त्वम्] वेदान् न अनुभवसि । अशान; अथ मे [वचनात्] विज्ञास्यसि इति ।

Passage 104.4

स हाशाथ हैनमुपससाद तँ ह यत्किञ्च पप्रच्छ सर्वँह प्रतिपेदे ॥ ४ ॥

पदच्छेद

सःsaḥहhaआशāśaअथathaहhaएनम्enamउपससादupasasādaतम्tamहhaयत्yatकिम्kimचcaपप्रच्छpapracchaसर्वम्sarvamहhaप्रतिपेदेpratipede

अन्वय

सः ह आश । अथ ह एनम् उपससाद । तम् ह [पिता] यत् किञ्च पप्रच्छ, [सः] सर्वम् ह प्रतिपेदे ।

Passage 104.5

तँ होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ५ ॥

पदच्छेद

तम्tamहhaउवाचuvācaयथाyathāसोम्यsomyaमहतःmahataḥअभ्याहितस्यabhyāhitasyaएकम्ekamअङ्गारम्aṅgāramखद्योतमात्रम्khadyotamātramपरिशिष्टम्pariśiṣṭamतम्tamतृणैःtṛṇaiḥउपसमाधायupasamādhāyaप्राज्वलयेत्prājvalayetतेनtenaततःtataḥअपिapiबहुbahuदहेत्dahet

अन्वय

[पिता] तम् ह उवाच—सोम्य, यथा महतः अभ्याहितस्य [अग्नेः] एकम् खद्योतमात्रम् अङ्गारम् परिशिष्टम्, तम् तृणैः उपसमाधाय प्राज्वलयेत्, तेन ततः अपि बहु दहेत् ।

Passage 104.6

एवँ सोम्य ते षोडशानां कलानामेका कलातिशिष्टाभूत्सान्नेनोपसमाहिता प्राज्वालीतयैतर्हि वेदाननुभवस्यन्नमयँहि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६ ॥

पदच्छेद

एवम्evamसोम्यsomyaतेteषोडशानाम्ṣoḍaśānāmकलानाम्kalānāmएकाekāकलाkalāअतिशिष्टाatiśiṣṭāअभूत्abhūtसाsāअन्नेनannenaउपसमाहिताupasamāhitāप्राज्वालीprājvālīतयाtayāएतर्हिetarhiवेदान्vedānअनुभवसिanubhavasiअन्नमयम्annamayamहिhiसोम्यsomyaमनःmanaḥआपोमयःāpomayaḥप्राणःprāṇaḥतेजोमयीtejomayīवाक्vākइतिitiतत्tatहhaअस्यasyaविजज्ञौvijajñauइतिitiविजज्ञौvijajñauइतिiti

अन्वय

सोम्य, एवम् ते षोडशानाम् कलानाम् एका कला अतिशिष्टा अभूत्; सा अन्नेन उपसमाहिता प्राज्वाली । तया एतर्हि [त्वम्] वेदान् अनुभवसि । सोम्य, मनः हि अन्नमयम् [अस्ति]; प्राणः आपोमयः [अस्ति]; वाक् तेजोमयी [अस्ति] इति । [सः] तत् ह अस्य [पितुः उक्तम्] विजज्ञौ इति; विजज्ञौ इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 7

Read the whole section →