Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 2

संस्कृत

Passage 99.1

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत ॥ १ ॥

पदच्छेद

सत्satएवevaसोम्यsomyaइदम्idamअग्रेagreआसीत्āsītएकम्ekamएवevaअद्वितीयम्advitīyamतत्tatहhaएकेekeआहुःāhuḥअसत्asatएवevaइदम्idamअग्रेagreआसीत्āsītएकम्ekamएवevaअद्वितीयम्advitīyamतस्मात्tasmātअसतःasataḥसत्satजायतjāyata

अन्वय

सोम्य, अग्रे इदम् सत् एव आसीत्, एकम् एव अद्वितीयम् [आसीत्] । तत् ह एके, अग्रे इदम् असत् एव आसीत्, एकम् एव अद्वितीयम् [आसीत्]; तस्मात् असतः सत् जायत [इति] आहुः ।

Passage 99.2

कुतस्तु खलु सोम्यैवँस्यादिति होवाच कथमसतः सज्जायेतेति। सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥

पदच्छेद

कुतःkutaḥतुtuखलुkhaluसोम्यsomyaएवम्evamस्यात्syātइतिitiहhaउवाचuvācaकथम्kathamअसतःasataḥसत्satजायेतjāyetaइतिitiसत्satतुtuएवevaसोम्यsomyaइदम्idamअग्रेagreआसीत्āsītएकम्ekamएवevaअद्वितीयम्advitīyam

अन्वय

सोम्य, कुतः तु खलु एवम् स्यात् इति ह उवाच; असतः सत् कथम् जायेत इति । सोम्य, अग्रे इदम् सत् तु एव आसीत्, एकम् एव अद्वितीयम् [आसीत्] ।

Passage 99.3

तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत । तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत । तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते ॥ ३ ॥

पदच्छेद

तत्tatऐक्षतaikṣataबहुbahuस्याम्syāmप्रजायेयprajāyeyaइतिitiतत्tatतेजःtejaḥअसृजतasṛjataतत्tatतेजःtejaḥऐक्षतaikṣataबहुbahuस्याम्syāmप्रजायेयprajāyeyaइतिitiतत्tatअपःapaḥअसृजतasṛjataतस्मात्tasmātयत्रyatraक्वkvaचcaशोचतिśocatiस्वेदतेsvedateवाvāपुरुषःpuruṣaḥतेजसःtejasaḥएवevaतत्tatअधिadhiआपःāpaḥजायन्तेjāyante

अन्वय

तत्, बहु स्याम्, प्रजायेय इति ऐक्षत; तत् तेजः असृजत । तत् तेजः, बहु स्याम्, प्रजायेय इति ऐक्षत; तत् अपः असृजत । तस्मात् यत्र क्वच पुरुषः शोचति स्वेदते वा, तत् [तदा] तेजसः एव अधि आपः जायन्ते ।

Passage 99.4

ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त । तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥ ४ ॥

पदच्छेद

ताःtāḥआपःāpaḥऐक्षन्तaikṣantaबह्व्यःbahvyaḥस्यामsyāmaप्रजायेमहिprajāyemahiइतिitiताःtāḥअन्नम्annamअसृजन्तasṛjantaतस्मात्tasmātयत्रyatraक्वkvaचcaवर्षतिvarṣatiतत्tatएवevaभूयिष्ठम्bhūyiṣṭhamअन्नम्annamभवतिbhavatiअद्भ्यःadbhyaḥएवevaतत्tatअधिadhiअन्नाद्यम्annādyamजायतेjāyate

अन्वय

ताः आपः, बह्व्यः स्याम, प्रजायेमहि इति ऐक्षन्त; ताः अन्नम् असृजन्त । तस्मात् यत्र क्व च वर्षति, तत् [तत्र] एव भूयिष्ठम् अन्नम् भवति; तत् अद्भ्यः एव अधि अन्नाद्यम् जायते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 2

Read the whole section →