Sunday Meditation· Open to Everyone

अध्याय 1, खण्ड 10

संस्कृत

Passage 10.1

मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १ ॥

पदच्छेद

मटचीहतेषुmaṭacīhateṣuकुरुषुkuruṣuआटिक्याāṭikyāसहsahaजाययाjāyayāउषस्तिःuṣastiḥहhaचाक्रायणःcākrāyaṇaḥइभ्यग्रामेibhyagrāmeप्रद्राणकःpradrāṇakaḥउवासuvāsa

अन्वय

मटचीहतेषु कुरुषु आटिक्या जायया सह उषस्तिः चाक्रायणः ह इभ्यग्रामे प्रद्राणकः उवास ।

Passage 10.2

स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तꣳ होवाच । नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ २ ॥

पदच्छेद

सःsaḥहhaइभ्यम्ibhyamकुल्माषान्kulmāṣānखादन्तम्khādantamबिभिक्षेbibhikṣeतम्tamहhaउवाचuvācaनnaइतःitaḥअन्येanyeविद्यन्तेvidyanteयत्yatचcaयेyeमेmeइमेimeउपनिहिताःupanihitāḥइतिiti

Passage 10.3

एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतꣳ स्यादिति होवाच ॥ ३ ॥

पदच्छेद

एतेषाम्eteṣāmमेmeदेहिdehiइतिitiहhaउवाचuvācaतान्tānअस्मैasmaiप्रददौpradadauहन्तhantaअनुपानम्anupānamइतिitiउच्छिष्टम्ucchiṣṭamवैvaiमेmeपीतम्pītamस्यात्syātइतिitiहhaउवाचuvāca

अन्वय

एतेषाम् मे देहि इति ह [उषस्तिः] उवाच । [इभ्यः] तान् अस्मै प्रददौ । हन्त अनुपानम् [गृहाण] इति [उवाच] । मे पीतम् उच्छिष्टम् वै स्यात् इति ह [उषस्तिः] उवाच ।

Passage 10.4

न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमा न खादन्निति होवाच कामो म उदपानमिति ॥ ४ ॥

पदच्छेद

नnaस्वित्svitएतेeteअपिapiउच्छिष्टाःucchiṣṭāḥइतिitiनnaवैvaiअजीविष्यम्ajīviṣyamइमान्imānअखादन्akhādanइतिitiहhaउवाचuvācaकामःkāmaḥमेmeउदपानम्udapānamइतिiti

अन्वय

एते अपि उच्छिष्टाः न स्वित् [सन्ति] इति [इभ्यः पप्रच्छ] । इमान् अखादन् [अहम्] न वै अजीविष्यम् इति ह [उषस्तिः] उवाच । उदपानम् मे कामः [अस्ति] इति ।

Passage 10.5

स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ ५ ॥

पदच्छेद

सःsaḥहhaखादित्वाkhāditvāअतिशेषान्atiśeṣānजायायैjāyāyaiआजहारājahāraसाsāअग्रेagreएवevaसुभिक्षाsubhikṣāबभूवbabhūvaतान्tānप्रतिगृह्यpratigṛhyaनिदधौnidadhau

अन्वय

सः ह खादित्वा अतिशेषान् जायायै आजहार । सा अग्रे एव सुभिक्षा बभूव; तान् प्रतिगृह्य निदधौ ।

Passage 10.6

स ह प्रातः सञ्जिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्राꣳ राजासौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ ६ ॥

पदच्छेद

सःsaḥहhaप्रातःprātaḥसञ्जिहानःsañjihānaḥउवाचuvācaयत्yatबतbataअन्नस्यannasyaलभेमहिlabhemahiलभेमहिlabhemahiधनमात्राम्dhanamātrāmराजाrājāअसौasauयक्ष्यतेyakṣyateसःsaḥमाmāसर्वैःsarvaiḥआर्त्विज्यैःārtvijyaiḥवृणीतvṛṇītaइतिiti

अन्वय

सः ह प्रातः सञ्जिहानः उवाच-यत् बत अन्नस्य [किञ्चित्] लभेमहि, [तर्हि] धनमात्राम् लभेमहि । असौ राजा यक्ष्यते; सः मा सर्वैः आर्त्विज्यैः वृणीत इति ।

Passage 10.7

तं जायोवाच हन्त पत इम एव कुल्माषा इति तान्खादित्वामुं यज्ञं विततमेयाय ॥ ७ ॥

पदच्छेद

तम्tamजायाjāyāउवाचuvācaहन्तhantaपतेpateइमेimeएवevaकुल्माषाःkulmāṣāḥइतिitiतान्tānखादित्वाkhāditvāअमुम्amumयज्ञम्yajñamविततम्vitatamएयायeyāya

अन्वय

तम् जाया उवाच-हन्त, पते, इमे एव कुल्माषाः [सन्ति] इति । तान् खादित्वा अमुम् विततम् यज्ञम् एयाय ।

Passage 10.8

तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश स ह प्रस्तोतारमुवाच ॥ ८ ॥

पदच्छेद

तत्रtatraउद्गातॄन्udgātṝnआस्तावेāstāveस्तोष्यमाणान्stoṣyamāṇānउपोपविवेशupopaviveśaसःsaḥहhaप्रस्तोतारम्prastotāramउवाचuvāca

अन्वय

तत्र आस्तावे स्तोष्यमाणान् उद्गातॄन् उपोपविवेश । सः ह प्रस्तोतारम् उवाच [इति उत्तरवाक्यम्] ।

Passage 10.9

प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥ ९ ॥

पदच्छेद

प्रस्तोतःprastotaḥयाyāदेवताdevatāप्रस्तावम्prastāvamअन्वायत्ताanvāyattāताम्tāmचेत्cetअविद्वान्avidvānप्रस्तोष्यसिprastoṣyasiमूर्धाmūrdhāतेteविपतिष्यतिvipatiṣyatiइतिiti

अन्वय

प्रस्तोतः, या देवता प्रस्तावम् अन्वायत्ता [अस्ति], ताम् अविद्वान् चेत् प्रस्तोष्यसि, ते मूर्धा विपतिष्यति इति [उवाच] ।

Passage 10.10

एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १० ॥

पदच्छेद

एवम्evamएवevaउद्गातारम्udgātāramउवाचuvācaउद्गातःudgātaḥयाyāदेवताdevatāउद्गीथम्udgīthamअन्वायत्ताanvāyattāताम्tāmचेत्cetअविद्वान्avidvānउद्गास्यसिudgāsyasiमूर्धाmūrdhāतेteविपतिष्यतिvipatiṣyatiइतिiti

अन्वय

एवम् एव उद्गातारम् उवाच-उद्गातः, या देवता उद्गीथम् अन्वायत्ता [अस्ति], ताम् अविद्वान् चेत् उद्गास्यसि, ते मूर्धा विपतिष्यति इति ।

Passage 10.11

एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिरे ॥ ११ ॥

पदच्छेद

एवम्evamएवevaप्रतिहर्तारम्pratihartāramउवाचuvācaप्रतिहर्तःpratihartaḥयाyāदेवताdevatāप्रतिहारम्pratihāramअन्वायत्ताanvāyattāताम्tāmचेत्cetअविद्वान्avidvānप्रतिहरिष्यसिpratihariṣyasiमूर्धाmūrdhāतेteविपतिष्यतिvipatiṣyatiइतिitiतेteहhaसमारताःsamāratāḥतूष्णीम्tūṣṇīmआसाम्āsāmचक्रिरेcakrire

अन्वय

एवम् एव प्रतिहर्तारम् उवाच-प्रतिहर्तः, या देवता प्रतिहारम् अन्वायत्ता [अस्ति], ताम् अविद्वान् चेत् प्रतिहरिष्यसि, ते मूर्धा विपतिष्यति इति । ते ह समारताः तूष्णीम् आसांचक्रिरे ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 1, खण्ड 10

Read the whole section →