Sunday Meditation· Open to Everyone

अध्याय 1, खण्ड 12

संस्कृत

Passage 12.1

अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १ ॥

पदच्छेद

अथathaअतःataḥशौवःśauvaḥउद्गीथःudgīthaḥतत्tatहhaबकःbakaḥदाल्भ्यःdālbhyaḥग्लावःglāvaḥवाvāमैत्रेयःmaitreyaḥस्वाध्यायम्svādhyāyamउद्वव्राजudvavrāja

अन्वय

अथ अतः शौवः उद्गीथः [प्रस्तूयते] । तत् ह बकः दाल्भ्यः ग्लावः वा मैत्रेयः स्वाध्यायम् उद्वव्राज ।

Passage 12.2

तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुरन्नं नो भगवानागायत्वशनायाम वा इति ॥ २ ॥

पदच्छेद

तस्मैtasmaiश्वाśvāश्वेतःśvetaḥप्रादुर्बभूवprādurbabhūvaतम्tamअन्येanyeश्वानःśvānaḥउपसमेत्यupasametyaऊचुःūcuḥअन्नम्annamनःnaḥभगवान्bhagavānआगायतुāgāyatuअशनायामःaśanāyāmaḥवैvaiइतिiti

अन्वय

तस्मै श्वेतः श्वा प्रादुर्बभूव । अन्ये श्वानः तम् उपसमेत्य ऊचुः-भगवान् नः अन्नम् आगायतु । अशनायाम वा इति ।

Passage 12.3

तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार ॥ ३ ॥

पदच्छेद

तान्tānहhaउवाचuvācaइहihaएवevaमाmāप्रातःprātaḥउपसमीयातupasamīyātaइतिitiतत्tatहhaबकःbakaḥदाल्भ्यःdālbhyaḥग्लावःglāvaḥवाvāमैत्रेयःmaitreyaḥप्रतिपालयाम्pratipālayāmचकारcakāra

Passage 12.4

ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सꣳरब्धाः सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हिं चक्रुः ॥ ४ ॥

पदच्छेद

तेteहhaयथाyathāएवevaइदम्idamबहिष्पवमानेनbahiṣpavamānenaस्तोष्यमाणाःstoṣyamāṇāḥसंरब्धाःsaṃrabdhāḥसर्पन्तिsarpantiइतिitiएवम्evamआससृपुःāsasṛpuḥतेteहhaसमुपविश्यsamupaviśyaहिम्himचक्रुःcakruḥ

अन्वय

ते ह, यथा एव इदम् बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्ति इति, एवम् आससृपुः । ते ह समुपविश्य हिं चक्रुः ।

Passage 12.5

ओ३मदा३मों३पिबा३मों३ देवो वरुणः प्रजापतिः सविता३न्नमिहा२हरदन्नपते३ऽन्नमिहा२हरा२हरो३मिति ॥ ५ ॥

पदच्छेद

ओम्omअदामadāmaओम्omपिबामpibāmaओम्omदेवःdevaḥवरुणःvaruṇaḥप्रजापतिःprajāpatiḥसविताsavitāअन्नम्annamइहihaआहरत्āharatअन्नपतेannapateअन्नम्annamइहihaआहरāharaआहरāharaओम्omइतिiti

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 1, खण्ड 12

Read the whole section →