Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 15

संस्कृत

Passage 112.1

पुरुषँ सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति । तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ १ ॥

पदच्छेद

पुरुषम्puruṣamसोम्यsomyaउतutaउपतापिनम्upatāpinamज्ञातयःjñātayaḥपर्युपासतेparyupāsateजानासिjānāsiमाम्māmजानासिjānāsiमाम्māmइतिitiतस्यtasyaयावत्yāvatनnaवाक्vākमनसिmanasiसम्पद्यतेsampadyateमनःmanaḥप्राणेprāṇeप्राणःprāṇaḥतेजसिtejasiतेजःtejaḥपरस्याम्parasyāmदेवतायाम्devatāyāmतावत्tāvatजानातिjānāti

अन्वय

सोम्य, उत उपतापिनम् पुरुषम् ज्ञातयः, माम् जानासि; माम् जानासि इति पर्युपासते । तस्य यावत् वाक् मनसि न सम्पद्यते, मनः प्राणे [न सम्पद्यते], प्राणः तेजसि [न सम्पद्यते], तेजः परस्याम् देवतायाम् [न सम्पद्यते], तावत् [सः] जानाति ।

Passage 112.2

अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥

पदच्छेद

अथathaयदाyadāअस्यasyaवाक्vākमनसिmanasiसम्पद्यतेsampadyateमनःmanaḥप्राणेprāṇeप्राणःprāṇaḥतेजसिtejasiतेजःtejaḥपरस्याम्parasyāmदेवतायाम्devatāyāmअथathaनnaजानातिjānāti

अन्वय

अथ यदा अस्य वाक् मनसि सम्पद्यते, मनः प्राणे [सम्पद्यते], प्राणः तेजसि [सम्पद्यते], तेजः परस्याम् देवतायाम् [सम्पद्यते], अथ [सः] न जानाति ।

Passage 112.3

स य एषोऽणिमैतदात्म्यमिदँ सर्वं तत् सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥएषःeṣaḥअणिमाaṇimāएतदात्म्यम्etadātmyamइदम्idamसर्वम्sarvamतत्tatसत्यम्satyamसःsaḥआत्माātmāतत्tatत्वम्tvamअसिasiश्वेतकेतोśvetaketoइतिitiभूयःbhūyaḥएवevaमाmāभगवान्bhagavānविज्ञापयतुvijñāpayatuइतिitiतथाtathāसोम्यsomyaइतिitiहhaउवाचuvāca

अन्वय

[पिता], सः यः एषः अणिमा [अस्ति], इदम् सर्वम् एतदात्म्यम् [अस्ति]; तत् सत्यम् [अस्ति]; सः आत्मा [अस्ति]; श्वेतकेतो, तत् त्वम् असि इति [उवाच] । [सः], भगवान् मा भूयः एव विज्ञापयतु इति [उवाच] । [पिता], तथा, सोम्य इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 15

Read the whole section →