Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 1

संस्कृत

Passage 14.1

समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ १ ॥

पदच्छेद

समस्तस्यsamastasyaखलुkhaluसाम्नःsāmnaḥउपासनम्upāsanamसाधुsādhuयत्yatखलुkhaluसाधुsādhuतत्tatसामsāmaइतिitiआचक्षतेācakṣateयत्yatअसाधुasādhuतत्tatअसामasāmaइतिiti

अन्वय

समस्तस्य साम्नः उपासनम् खलु साधु [अस्ति] । यत् खलु साधु [अस्ति], तत् साम इति आचक्षते । यत् असाधु [अस्ति], तत् असाम इति [आचक्षते] ।

Passage 14.2

तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपगादित्येव तदाहुः ॥ २ ॥

पदच्छेद

तत्tatउतutaअपिapiआहुःāhuḥसाम्नाsāmnāएनम्enamउपागात्upāgātइतिitiसाधुनाsādhunāएनम्enamउपागात्upāgātइतिitiएवevaतत्tatआहुःāhuḥअसाम्नाasāmnāएनम्enamउपागात्upāgātइतिitiअसाधुनाasādhunāएनम्enamउपगात्upagātइतिitiएवevaतत्tatआहुःāhuḥ

अन्वय

तत् उत अपि आहुः-साम्ना एनम् उपागात् इति । साधुना एनम् उपागात् इति एव तत् आहुः । असाम्ना एनम् उपागात् इति असाधुना एनम् उपगात् इति एव तत् आहुः ।

Passage 14.3

अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ ३ ॥

पदच्छेद

अथathaउतutaअपिapiआहुःāhuḥसामsāmaनःnaḥबतbataइतिitiयत्yatसाधुsādhuभवतिbhavatiसाधुsādhuबतbataइतिitiएवevaतत्tatआहुःāhuḥअसामasāmaनःnaḥबतbataइतिitiयत्yatअसाधुasādhuभवतिbhavatiअसाधुasādhuबतbataइतिitiएवevaतत्tatआहुःāhuḥ

अन्वय

अथ उत अपि आहुः-साम नः बत इति । यत् साधु भवति, साधु बत इति एव तत् आहुः । असाम नः बत इति । यत् असाधु भवति, असाधु बत इति एव तत् आहुः ।

Passage 14.4

स य एतदेवं विद्वान्साधु सामेत्युपास्तेऽभ्याशो ह यदेनꣳसाधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ ४ ॥

पदच्छेद

सःsaḥयःyaḥएतत्etatएवम्evamविद्वान्vidvānसाधुsādhuसामsāmaइतिitiउपास्तेupāsteअभ्याशःabhyāśaḥहhaयत्yatएनम्enamसाधवःsādhavaḥधर्माःdharmāḥआāचcaगच्छेयुःgaccheyuḥउपupaचcaनमेयुःnameyuḥ

अन्वय

सः यः एतत् एवम् विद्वान् साधु साम इति उपास्ते, एनम् साधवः धर्माः अभ्याशः ह यत् आ च गच्छेयुः उप च नमेयुः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 1

Read the whole section →