Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 18

संस्कृत

Passage 55.1

मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ १ ॥

पदच्छेद

मनःmanaḥब्रह्मbrahmaइतिitiउपासीतupāsītaइतिitiअध्यात्मम्adhyātmamअथathaअधिदैवतम्adhidaivatamआकाशःākāśaḥब्रह्मbrahmaइतिitiउभयम्ubhayamआदिष्टम्ādiṣṭamभवतिbhavatiअध्यात्मम्adhyātmamचcaअधिदैवतम्adhidaivatamचca

अन्वय

मनः ब्रह्म इति उपासीत; इति अध्यात्मम् । अथ अधिदैवतम्—आकाशः ब्रह्म [अस्ति] । इति अध्यात्मम् च अधिदैवतम् च उभयम् आदिष्टम् भवति ।

Passage 55.2

तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ २ ॥

पदच्छेद

तत्tatएतत्etatचतुष्पात्catuṣpātब्रह्मbrahmaवाक्vākपादःpādaḥप्राणःprāṇaḥपादःpādaḥचक्षुःcakṣuḥपादःpādaḥश्रोत्रम्śrotramपादःpādaḥइतिitiअध्यात्मम्adhyātmamअथathaअधिदैवतम्adhidaivatamअग्निःagniḥपादःpādaḥवायुःvāyuḥपादःpādaḥआदित्यःādityaḥपादःpādaḥदिशःdiśaḥपादःpādaḥइतिitiउभयम्ubhayamएवevaआदिष्टम्ādiṣṭamभवतिbhavatiअध्यात्मम्adhyātmamचcaएवevaअधिदैवतम्adhidaivatamचca

अन्वय

तत् एतत् ब्रह्म चतुष्पात् [अस्ति] । वाक् पादः [अस्ति]; प्राणः पादः [अस्ति]; चक्षुः पादः [अस्ति]; श्रोत्रम् पादः [अस्ति]; इति अध्यात्मम् । अथ अधिदैवतम्—अग्निः पादः [अस्ति]; वायुः पादः [अस्ति]; आदित्यः पादः [अस्ति]; दिशः पादः । इति अध्यात्मम् च एव अधिदैवतम् च उभयम् एव आदिष्टम् भवति ।

Passage 55.3

वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥

पदच्छेद

वाक्vākएवevaब्रह्मणःbrahmaṇaḥचतुर्थःcaturthaḥपादःpādaḥसःsaḥअग्निनाagnināज्योतिषाjyotiṣāभातिbhātiचcaतपतिtapatiचcaभातिbhātiचcaतपतिtapatiचcaकीर्त्याkīrtyāयशसाyaśasāब्रह्मवर्चसेनbrahmavarcasenaयःyaḥएवम्evamवेदveda

अन्वय

वाक् एव ब्रह्मणः चतुर्थः पादः [अस्ति] । सः अग्निना ज्योतिषा भाति च तपति च । यः एवम् वेद, [सः] कीर्त्या यशसा ब्रह्मवर्चसेन भाति च तपति च ।

Passage 55.4

प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥

पदच्छेद

प्राणःprāṇaḥएवevaब्रह्मणःbrahmaṇaḥचतुर्थःcaturthaḥपादःpādaḥसःsaḥवायुनाvāyunāज्योतिषाjyotiṣāभातिbhātiचcaतपतिtapatiचcaभातिbhātiचcaतपतिtapatiचcaकीर्त्याkīrtyāयशसाyaśasāब्रह्मवर्चसेनbrahmavarcasenaयःyaḥएवम्evamवेदveda

अन्वय

प्राणः एव ब्रह्मणः चतुर्थः पादः [अस्ति] । सः वायुना ज्योतिषा भाति च तपति च । यः एवम् वेद, [सः] कीर्त्या यशसा ब्रह्मवर्चसेन भाति च तपति च ।

Passage 55.5

चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥

पदच्छेद

चक्षुःcakṣuḥएवevaब्रह्मणःbrahmaṇaḥचतुर्थःcaturthaḥपादःpādaḥसःsaḥआदित्येनādityenaज्योतिषाjyotiṣāभातिbhātiचcaतपतिtapatiचcaभातिbhātiचcaतपतिtapatiचcaकीर्त्याkīrtyāयशसाyaśasāब्रह्मवर्चसेनbrahmavarcasenaयःyaḥएवम्evamवेदveda

अन्वय

चक्षुः एव ब्रह्मणः चतुर्थः पादः [अस्ति] । सः आदित्येन ज्योतिषा भाति च तपति च । यः एवम् वेद, [सः] कीर्त्या यशसा ब्रह्मवर्चसेन भाति च तपति च ।

Passage 55.6

श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ६ ॥

पदच्छेद

श्रोत्रम्śrotramएवevaब्रह्मणःbrahmaṇaḥचतुर्थःcaturthaḥपादःpādaḥसःsaḥदिग्भिःdigbhiḥज्योतिषाjyotiṣāभातिbhātiचcaतपतिtapatiचcaभातिbhātiचcaतपतिtapatiचcaकीर्त्याkīrtyāयशसाyaśasāब्रह्मवर्चसेनbrahmavarcasenaयःyaḥएवम्evamवेदvedaयःyaḥएवम्evamवेदveda

अन्वय

श्रोत्रम् एव ब्रह्मणः चतुर्थः पादः [अस्ति] । सः दिग्भिः ज्योतिषा भाति च तपति च । यः एवम् वेद, यः एवम् वेद, [सः] कीर्त्या यशसा ब्रह्मवर्चसेन भाति च तपति च ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 18

Read the whole section →