Sunday Meditation· Open to Everyone

अध्याय 8, खण्ड 3

संस्कृत

Passage 142.1

त इमे सत्याः कामा अनृतापिधानास्तेषाꣳ सत्यानाꣳ सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥

पदच्छेद

तेteइमेimeसत्याःsatyāḥकामाःkāmāḥअनृतापिधानाःanṛtāpidhānāḥतेषाम्teṣāmसत्यानाम्satyānāmसताम्satāmअनृतम्anṛtamअपिधानम्apidhānamयःyaḥयःyaḥहिhiअस्यasyaइतःitaḥप्रैतिpraitiनnaतम्tamइहihaदर्शनायdarśanāyaलभतेlabhate

अन्वय

ते इमे सत्याः कामाः अनृतापिधानाः [सन्ति] । तेषाम् सत्यानाम् सताम् अनृतम् अपिधानम् [अस्ति] । यः यः हि अस्य इतः प्रैति, तम् इह दर्शनाय न लभते ।

Passage 142.2

अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ २ ॥

पदच्छेद

अथathaयेyeचcaअस्यasyaइहihaजीवाःjīvāḥयेyeचcaप्रेताःpretāḥयत्yatचcaअन्यत्anyatइच्छन्icchanनnaलभतेlabhateसर्वम्sarvamतत्tatअत्रatraगत्वाgatvāविन्दतेvindateअत्रatraहिhiअस्यasyaएतेeteसत्याःsatyāḥकामाःkāmāḥअनृतापिधानाःanṛtāpidhānāḥतत्tatयथाyathāअपिapiहिरण्यनिधिम्hiraṇyanidhimनिहितम्nihitamअक्षेत्रज्ञाःakṣetrajñāḥउपरिupariउपरिupariसञ्चरन्तःsañcarantaḥनnaविन्देयुःvindeyuḥएवम्evamएवevaइमाःimāḥसर्वाःsarvāḥप्रजाःprajāḥअहःahaḥअहःahaḥगच्छन्त्यःgacchantyaḥएतम्etamब्रह्मलोकम्brahmalokamनnaविन्दन्तिvindantiअनृतेनanṛtenaहिhiप्रत्यूढाःpratyūḍhāḥ

अन्वय

अथ अस्य ये च इह जीवाः [सन्ति], ये च प्रेताः [सन्ति], यत् च अन्यत् इच्छन् न लभते, तत् सर्वम् अत्र गत्वा विन्दते । अत्र हि अस्य एते सत्याः कामाः अनृतापिधानाः [सन्ति] । तत् यथा अपि निहितम् हिरण्यनिधिम् अक्षेत्रज्ञाः उपरि उपरि सञ्चरन्तः न विन्देयुः, एवम् एव इमाः सर्वाः प्रजाः अहरहर् एतम् ब्रह्मलोकम् गच्छन्त्यः न विन्दन्ति; हि अनृतेन प्रत्यूढाः [सन्ति] ।

Passage 142.3

स वा एष आत्मा हृदि तस्यैतदेव निरुक्तꣳ हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ३ ॥

पदच्छेद

सःsaḥवैvaiएषःeṣaḥआत्माātmāहृदिhṛdiतस्यtasyaएतत्etatएवevaनिरुक्तम्niruktamहृदिhṛdiअयम्ayamइतिitiतस्मात्tasmātहृदयम्hṛdayamअहःahaḥअहःahaḥवैvaiएवंवित्evaṃvitस्वर्गम्svargamलोकम्lokamएतिeti

अन्वय

सः वै एषः आत्मा हृदि [अस्ति] । तस्य एतत् एव निरुक्तम्—हृदि अयम् इति; तस्मात् हृदयम् [इति] । एवंवित् अहरहर् वै स्वर्गम् लोकम् एति ।

Passage 142.4

अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥ ४ ॥

पदच्छेद

अथathaयःyaḥएषःeṣaḥसम्प्रसादःsamprasādaḥअस्मात्asmātशरीरात्śarīrātसमुत्थायsamutthāyaपरम्paramज्योतिःjyotiḥउपसम्पद्यupasampadyaस्वेनsvenaरूपेणrūpeṇaअभिनिष्पद्यतेabhiniṣpadyateएषःeṣaḥआत्माātmāइतिitiहhaउवाचuvācaएतत्etatअमृतम्amṛtamअभयम्abhayamएतत्etatब्रह्मbrahmaइतिitiतस्यtasyaहhaवैvaiएतस्यetasyaब्रह्मणःbrahmaṇaḥनामnāmaसत्यम्satyamइतिiti

अन्वय

अथ यः एषः सम्प्रसादः अस्मात् शरीरात् समुत्थाय परम् ज्योतिः उपसम्पद्य स्वेन रूपेण अभिनिष्पद्यते, एषः आत्मा इति ह उवाच । एतत् अमृतम् अभयम्; एतत् ब्रह्म इति । तस्य ह वै एतस्य ब्रह्मणः नाम सत्यम् इति ।

Passage 142.5

तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ५ ॥

पदच्छेद

तानिtāniहhaवैvaiएतानिetāniत्रीणिtrīṇiअक्षराणिakṣarāṇiसत्satतिtiयम्yamइतिitiतत्tatयत्yatसत्satतत्tatअमृतम्amṛtamअथathaयत्yatतिtiतत्tatमर्त्यम्martyamअथathaयत्yatयम्yamतेनtenaउभेubheयच्छतिyacchatiयत्yatअनेनanenaउभेubheयच्छतिyacchatiतस्मात्tasmātयम्yamअहःahaḥअहःahaḥवैvaiएवंवित्evaṃvitस्वर्गम्svargamलोकम्lokamएतिeti

अन्वय

तानि ह वै एतानि त्रीणि अक्षराणि—सतीयम् इति । तत् यत् सत्, तत् अमृतम् [अस्ति] । अथ यत् ति, तत् मर्त्यम् [अस्ति] । अथ यत् यम्, तेन उभे यच्छति । यत् अनेन उभे यच्छति, तस्मात् यम् [इति] । एवंवित् अहरहर् वै स्वर्गम् लोकम् एति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 8, खण्ड 3

Read the whole section →