Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 8

संस्कृत

Passage 105.1

उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनँ स्वपितीत्याचक्षते स्वँह्यपीतो भवति ॥ १ ॥

पदच्छेद

उद्दालकःuddālakaḥहhaआरुणिःāruṇiḥश्वेतकेतुम्śvetaketumपुत्रम्putramउवाचuvācaस्वप्नान्तम्svapnāntamमेmeसोम्यsomyaविजानीहिvijānīhiइतिitiयत्रyatraएतत्etatपुरुषःpuruṣaḥस्वपितिsvapitiनामnāmaसताsatāसोम्यsomyaतदाtadāसम्पन्नःsampannaḥभवतिbhavatiस्वम्svamअपीतःapītaḥभवतिbhavatiतस्मात्tasmātएनम्enamस्वपितिsvapitiइतिitiआचक्षतेācakṣateस्वम्svamहिhiअपीतःapītaḥभवतिbhavati

अन्वय

उद्दालकः आरुणिः ह श्वेतकेतुम् पुत्रम्, सोम्य, मे [निगदतः] स्वप्नान्तम् विजानीहि इति उवाच । सोम्य, यत्र एतत् पुरुषः स्वपिति नाम, तदा सता सम्पन्नः भवति; स्वम् अपीतः भवति । तस्मात् एनम् स्वपिति इति आचक्षते; स्वम् हि अपीतः भवति ।

Passage 105.2

स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते प्राणबन्धनँ हि सोम्य मन इति ॥ २ ॥

पदच्छेद

सःsaḥयथाyathāशकुनिःśakuniḥसूत्रेणsūtreṇaप्रबद्धःprabaddhaḥदिशम्diśamदिशम्diśamपतित्वाpatitvāअन्यत्रanyatraआयतनम्āyatanamअलब्ध्वाalabdhvāबन्धनम्bandhanamएवevaउपश्रयतेupaśrayateएवम्evamएवevaखलुkhaluसोम्यsomyaतत्tatमनःmanaḥदिशम्diśamदिशम्diśamपतित्वाpatitvāअन्यत्रanyatraआयतनम्āyatanamअलब्ध्वाalabdhvāप्राणम्prāṇamएवevaउपश्रयतेupaśrayateप्राणबन्धनम्prāṇabandhanamहिhiसोम्यsomyaमनःmanaḥइतिiti

अन्वय

सः [दृष्टान्तः]—यथा सूत्रेण प्रबद्धः शकुनिः दिशम् दिशम् पतित्वा अन्यत्र आयतनम् अलब्ध्वा बन्धनम् एव उपश्रयते, एवम् एव खलु सोम्य तत् मनः दिशम् दिशम् पतित्वा अन्यत्र आयतनम् अलब्ध्वा प्राणम् एव उपश्रयते । सोम्य, मनः हि प्राणबन्धनम् [अस्ति] इति ।

Passage 105.3

अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रैतच्छुङ्गमुत्पतितँ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ३ ॥

पदच्छेद

अशनापिपासेaśanāpipāseमेmeसोम्यsomyaविजानीहिvijānīhiइतिitiयत्रyatraएतत्etatपुरुषःpuruṣaḥअशिशिषतिaśiśiṣatiनामnāmaआपःāpaḥएवevaतत्tatअशितम्aśitamनयन्तेnayanteतत्tatयथाyathāगोनायःgonāyaḥअश्वनायःaśvanāyaḥपुरुषनायःpuruṣanāyaḥइतिitiएवम्evamतत्tatअपःapaḥआचक्षतेācakṣateअशनायाaśanāyāइतिitiतत्रtatraएतत्etatशुङ्गम्śuṅgamउत्पतितम्utpatitamसोम्यsomyaविजानीहिvijānīhiनnaइदम्idamअमूलम्amūlamभविष्यतिbhaviṣyatiइतिiti

Passage 105.4

तस्य क्व मूलँ स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ४ ॥

पदच्छेद

तस्यtasyaक्वkvaमूलम्mūlamस्यात्syātअन्यत्रanyatraअन्नात्annātएवम्evamएवevaखलुkhaluसोम्यsomyaअन्नेनannenaशुङ्गेनśuṅgenaअपःapaḥमूलम्mūlamअन्विच्छanvicchaअद्भिःadbhiḥसोम्यsomyaशुङ्गेनśuṅgenaतेजःtejaḥमूलम्mūlamअन्विच्छanvicchaतेजसाtejasāसोम्यsomyaशुङ्गेनśuṅgenaसत्satमूलम्mūlamअन्विच्छanvicchaसन्मूलाःsanmūlāḥसोम्यsomyaइमाःimāḥसर्वाःsarvāḥप्रजाःprajāḥसदायतनाःsadāyatanāḥसत्प्रतिष्ठाःsatpratiṣṭhāḥ

अन्वय

तस्य मूलम् अन्नात् अन्यत्र क्व स्यात् । सोम्य, एवम् एव खलु अन्नेन शुङ्गेन अपः मूलम् अन्विच्छ; सोम्य, अद्भिः शुङ्गेन तेजः मूलम् अन्विच्छ; सोम्य, तेजसा शुङ्गेन सन्मूलम् अन्विच्छ । सोम्य, इमाः सर्वाः प्रजाः सन्मूलाः सदायतनाः सत्प्रतिष्ठाः [सन्ति] ।

Passage 105.5

अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितँ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ५ ॥

पदच्छेद

अथathaयत्रyatraएतत्etatपुरुषःpuruṣaḥपिपासतिpipāsatiनामnāmaतेजःtejaḥएवevaतत्tatपीतम्pītamनयतेnayateतत्tatयथाyathāगोनायःgonāyaḥअश्वनायःaśvanāyaḥपुरुषनायःpuruṣanāyaḥइतिitiएवम्evamतत्tatतेजःtejaḥआचष्टेācaṣṭeउदन्याudanyāइतिitiतत्रtatraएतत्etatएवevaशुङ्गम्śuṅgamउत्पतितम्utpatitamसोम्यsomyaविजानीहिvijānīhiनnaइदम्idamअमूलम्amūlamभविष्यतिbhaviṣyatiइतिiti

Passage 105.6

तस्य क्व मूलँ स्यादन्यत्राद्भ्योऽद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६ ॥

पदच्छेद

तस्यtasyaक्वkvaमूलम्mūlamस्यात्syātअन्यत्रanyatraअद्भ्यःadbhyaḥअद्भिःadbhiḥसोम्यsomyaशुङ्गेनśuṅgenaतेजःtejaḥमूलम्mūlamअन्विच्छanvicchaतेजसाtejasāसोम्यsomyaशुङ्गेनśuṅgenaसत्satमूलम्mūlamअन्विच्छanvicchaसन्मूलाःsanmūlāḥसोम्यsomyaइमाःimāḥसर्वाःsarvāḥप्रजाःprajāḥसदायतनाःsadāyatanāḥसत्प्रतिष्ठाःsatpratiṣṭhāḥयथाyathāनुnuखलुkhaluसोम्यsomyaइमाःimāḥतिस्रःtisraḥदेवताःdevatāḥपुरुषम्puruṣamप्राप्यprāpyaत्रिवृत्trivṛtत्रिवृत्trivṛtएकैकाekaikāभवतिbhavatiतत्tatउक्तम्uktamपुरस्तात्purastātएवevaभवतिbhavatiअस्यasyaसोम्यsomyaपुरुषस्यpuruṣasyaप्रयतःprayataḥवाक्vākमनसिmanasiसम्पद्यतेsampadyateमनःmanaḥप्राणेprāṇeप्राणःprāṇaḥतेजसिtejasiतेजःtejaḥपरस्याम्parasyāmदेवतायाम्devatāyām

अन्वय

तस्य मूलम् अद्भ्यः अन्यत्र क्व स्यात् । सोम्य, अद्भिः शुङ्गेन तेजः मूलम् अन्विच्छ; सोम्य, तेजसा शुङ्गेन सन्मूलम् अन्विच्छ । सोम्य, इमाः सर्वाः प्रजाः सन्मूलाः सदायतनाः सत्प्रतिष्ठाः [सन्ति] । यथा नु खलु सोम्य इमाः तिस्रः देवताः पुरुषम् प्राप्य एकैका त्रिवृत् त्रिवृत् भवति, तत् पुरस्तात् एव उक्तम् भवति । सोम्य, प्रयतः अस्य पुरुषस्य वाक् मनसि सम्पद्यते; मनः प्राणे [सम्पद्यते]; प्राणः तेजसि [सम्पद्यते]; तेजः परस्याम् देवतायाम् [सम्पद्यते] ।

Passage 105.7

स य एषोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ७ ॥

पदच्छेद

सःsaḥयःyaḥएषःeṣaḥअणिमाaṇimāएतदात्म्यम्etadātmyamइदम्idamसर्वम्sarvamतत्tatसत्यम्satyamसःsaḥआत्माātmāतत्tatत्वम्tvamअसिasiश्वेतकेतोśvetaketoइतिitiभूयःbhūyaḥएवevaमाmāभगवान्bhagavānविज्ञापयतुvijñāpayatuइतिitiतथाtathāसोम्यsomyaइतिitiहhaउवाचuvāca

अन्वय

[पिता], सः यः एषः अणिमा [अस्ति], इदम् सर्वम् एतदात्म्यम् [अस्ति]; तत् सत्यम् [अस्ति]; सः आत्मा [अस्ति]; श्वेतकेतो, तत् त्वम् असि इति [उवाच] । [सः], भगवान् मा भूयः एव विज्ञापयतु इति [उवाच] । [पिता], तथा, सोम्य इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 8

Read the whole section →