Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 3

संस्कृत

Passage 76.1

श्वेतकेतुर्हारुणेयः पञ्चालानाँ समितिमेयाय तँ ह प्रवाहणो जैवलिरुवाच कुमारानु त्वाशिषत्पितेत्यनु हि भगव इति ॥ १ ॥

पदच्छेद

श्वेतकेतुःśvetaketuḥहhaआरुणेयःāruṇeyaḥपञ्चालानाम्pañcālānāmसमितिम्samitimएयायeyāyaतम्tamहhaप्रवाहणःpravāhaṇaḥजैवलिःjaivaliḥउवाचuvācaकुमारkumāraअनुanuत्वाtvāअशिषत्aśiṣatपिताpitāइतिitiअनुanuहिhiभगवःbhagavaḥइतिiti

अन्वय

श्वेतकेतुः ह आरुणेयः पञ्चालानाम् समितिम् एयाय । प्रवाहणः जैवलिः तम् ह उवाच—कुमार, पिता त्वा अनु अशिषत् इति । [श्वेतकेतुः आह—] भगवः, अनु हि [अशिषत्] इति ।

Passage 76.2

वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ यथा पुनरावर्तन्त३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति न भगव इति ॥ २ ॥

पदच्छेद

वेत्थvetthaयत्yatइतःitaḥअधिadhiप्रजाःprajāḥप्रयन्तिprayantiइतिitiनnaभगवःbhagavaḥइतिitiवेत्थvetthaयथाyathāपुनःpunaḥआवर्तन्तेāvartanteइतिitiनnaभगवःbhagavaḥइतिitiवेत्थvetthaपथोःpathoḥदेवयानस्यdevayānasyaपितृयाणस्यpitṛyāṇasyaचcaव्यावर्तनाःvyāvartanāḥइतिitiनnaभगवःbhagavaḥइतिiti

Passage 76.3

वेत्थ यथासौ लोको न सम्पूर्यत३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति नैव भगव इति ॥ ३ ॥

पदच्छेद

वेत्थvetthaयथाyathāअसौasauलोकःlokaḥनnaसम्पूर्यतेsampūryateइतिitiनnaभगवःbhagavaḥइतिitiवेत्थvetthaयथाyathāपञ्चम्याम्pañcamyāmआहुतौāhutauआपःāpaḥपुरुषवचसःpuruṣavacasaḥभवन्तिbhavantiइतिitiनnaएवevaभगवःbhagavaḥइतिiti

अन्वय

[प्रवाहणः पप्रच्छ—] यथा असौ लोकः न सम्पूर्यत३, [तत्] वेत्थ इति । [श्वेतकेतुः आह—] भगवः, न [वेद] इति । [प्रवाहणः पप्रच्छ—] यथा पञ्चम्याम् आहुतौ आपः पुरुषवचसः भवन्ति, [तत्] वेत्थ इति । [श्वेतकेतुः आह—] भगवः, न एव [वेद] इति ।

Passage 76.4

अथानु किमनुशिष्ठोऽवोचथा यो हीमानि न विद्यात्कथँ सोऽनुशिष्टो ब्रुवीतेति स हायस्तः पितुरर्धमेयाय तँ होवाचाननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाशिषमिति ॥ ४ ॥

पदच्छेद

अथathaअनुanuकिम्kimअनुशिष्टःanuśiṣṭaḥअवोचथाःavocathāḥयःyaḥहिhiइमानिimāniनnaविद्यात्vidyātकथम्kathamसःsaḥअनुशिष्टःanuśiṣṭaḥब्रुवीतbruvītaइतिitiसःsaḥहhaआयस्तःāyastaḥपितुःpituḥअर्धम्ardhamएयायeyāyaतम्tamहhaउवाचuvācaअननुशिष्यananuśiṣyaवावvāvaकिलkilaमाmāभगवान्bhagavānअब्रवीत्abravītअनुanuत्वाtvāअशिषम्aśiṣamइतिiti

Passage 76.5

पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां नैकञ्चनाशकं विवक्तुमिति स होवाच यथा मा त्वं तदैतानवदो यथाहमेषां नैकञ्चन वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५ ॥

पदच्छेद

पञ्चpañcaमाmāराजन्यबन्धुःrājanyabandhuḥप्रश्नान्praśnānअप्राक्षीत्aprākṣītतेषाम्teṣāmनnaएकम्ekamचनcanaअशकम्aśakamविवक्तुम्vivaktumइतिitiसःsaḥहhaउवाचuvācaयथाyathāमाmāत्वम्tvamतदाtadāएतान्etānअवदःavadaḥयथाyathāअहम्ahamएषाम्eṣāmनnaएकम्ekamचनcanaवेदvedaयदिyadiअहम्ahamइमान्imānअवेदिष्यम्avediṣyamकथम्kathamतेteनnaअवक्ष्यम्avakṣyamइतिiti

अन्वय

राजन्यबन्धुः मा पञ्च प्रश्नान् अप्राक्षीत् । तेषाम् एकञ्चन विवक्तुम् न अशकम् इति [श्वेतकेतुः आह] । सः [पिता] ह उवाच—यथा मा त्वम् तदा एतान् अवदः, [तथा मा जानीहि], यथा अहम् एषाम् एकञ्चन न वेद । यदि अहम् इमान् अवेदिष्यम्, ते कथम् न अवक्ष्यम् इति ।

Passage 76.6

स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हाञ्चकार स ह प्रातः सभाग उदेयाय तँ होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ६ ॥

पदच्छेद

सःsaḥहhaगौतमःgautamaḥराज्ञःrājñaḥअर्धम्ardhamएयायeyāyaतस्मैtasmaiहhaप्राप्तायprāptāyaअर्हाम्arhāmचकारcakāraसःsaḥहhaप्रातःprātaḥसभागःsabhāgaḥउदेयायudeyāyaतम्tamहhaउवाचuvācaमानुषस्यmānuṣasyaभगवन्bhagavanगौतमgautamaवित्तस्यvittasyaवरम्varamवृणीथाःvṛṇīthāḥइतिitiसःsaḥहhaउवाचuvācaतवtavaएवevaराजन्rājanमानुषम्mānuṣamवित्तम्vittamयाम्yāmएवevaकुमारस्यkumārasyaअन्तेanteवाचम्vācamअभाषथाःabhāṣathāḥताम्tāmएवevaमेmeब्रूहिbrūhiइतिitiसःsaḥहhaकृच्छ्रीkṛcchrīबभूवbabhūva

अन्वय

सः ह गौतमः राज्ञः अर्धम् एयाय । [राजा] तस्मै ह प्राप्ताय अर्हाम् चकार । सः ह प्रातः सभागः उदेयाय । [राजा] तम् ह उवाच—भगवन् गौतम, मानुषस्य वित्तस्य वरम् वृणीथाः इति । सः ह उवाच—राजन्, मानुषम् वित्तम् तव एव [तिष्ठतु] । कुमारस्य अन्ते याम् एव वाचम् अभाषथाः, ताम् एव मे ब्रूहि इति । सः [राजा] ह कृच्छ्री बभूव ।

Passage 76.7

तँ ह चिरं वसेत्याज्ञापयाञ्चकार तँ होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ ७ ॥

पदच्छेद

तम्tamहhaचिरम्ciramवसvasaइतिitiआज्ञापयाम्ājñāpayāmचकारcakāraतम्tamहhaउवाचuvācaयथाyathāमाmāत्वम्tvamगौतमgautamaअवदःavadaḥयथाyathāइयम्iyamनnaप्राक्prākत्वत्तःtvattaḥपुराpurāविद्याvidyāब्राह्मणान्brāhmaṇānगच्छतिgacchatiतस्मात्tasmātउuसर्वेषुsarveṣuलोकेषुlokeṣuक्षत्रस्यkṣatrasyaएवevaप्रशासनम्praśāsanamअभूत्abhūtइतिitiतस्मैtasmaiहhaउवाचuvāca

अन्वय

[राजा] तम् ह चिरम् वस इति आज्ञापयाञ्चकार । तम् ह उवाच—गौतम, यथा मा त्वम् अवदः, [तथा त्वम् जानीहि], यथा इयम् विद्या प्राक् त्वत्तः पुरा ब्राह्मणान् न गच्छति । तस्मात् उ सर्वेषु लोकेषु क्षत्रस्य एव प्रशासनम् अभूत् इति । [राजा] तस्मै ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 3

Read the whole section →