Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 9

संस्कृत

Passage 106.1

यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणाँरसान्समवहारमेकताँरसं गमयन्ति ॥ १ ॥

पदच्छेद

यथाyathāसोम्यsomyaमधुmadhuमधुकृतःmadhukṛtaḥनिस्तिष्ठन्तिnistiṣṭhantiनानात्ययानाम्nānātyayānāmवृक्षाणाम्vṛkṣāṇāmरसान्rasānसमवहारम्samavahāramएकताम्ekatāmरसम्rasamगमयन्तिgamayanti

Passage 106.2

ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति ॥ २ ॥

पदच्छेद

तेteयथाyathāतत्रtatraनnaविवेकम्vivekamलभन्तेlabhanteअमुष्यamuṣyaअहम्ahamवृक्षस्यvṛkṣasyaरसःrasaḥअस्मिasmiअमुष्यamuṣyaअहम्ahamवृक्षस्यvṛkṣasyaरसःrasaḥअस्मिasmiइतिitiएवम्evamएवevaखलुkhaluसोम्यsomyaइमाःimāḥसर्वाःsarvāḥप्रजाःprajāḥसतिsatiसम्पद्यsampadyaनnaविदुःviduḥसतिsatiसम्पद्यामहेsampadyāmaheइतिiti

अन्वय

यथा ते [रसाः] तत्र, अहम् अमुष्य वृक्षस्य रसः अस्मि; अहम् अमुष्य वृक्षस्य रसः अस्मि इति विवेकम् न लभन्ते, एवम् एव खलु सोम्य इमाः सर्वाः प्रजाः सति सम्पद्य, सति सम्पद्यामहे इति न विदुः ।

Passage 106.3

त इह व्याघ्रो वा सिँहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ३ ॥

पदच्छेद

तेteइहihaव्याघ्रःvyāghraḥवाvāसिंहःsiṃhaḥवाvāवृकःvṛkaḥवाvāवराहःvarāhaḥवाvāकीटःkīṭaḥवाvāपतङ्गःpataṅgaḥवाvāदंशःdaṃśaḥवाvāमशकःmaśakaḥवाvāयत्yatयत्yatभवन्तिbhavantiतत्tatआāभवन्तिbhavanti

अन्वय

ते इह व्याघ्रः वा सिंहः वा वृकः वा वराहः वा कीटः वा पतङ्गः वा दंशः वा मशकः वा यत् यत् भवन्ति, तत् आभवन्ति ।

Passage 106.4

स य एषोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ४ ॥

पदच्छेद

सःsaḥयःyaḥएषःeṣaḥअणिमाaṇimāएतदात्म्यम्etadātmyamइदम्idamसर्वम्sarvamतत्tatसत्यम्satyamसःsaḥआत्माātmāतत्tatत्वम्tvamअसिasiश्वेतकेतोśvetaketoइतिitiभूयःbhūyaḥएवevaमाmāभगवान्bhagavānविज्ञापयतुvijñāpayatuइतिitiतथाtathāसोम्यsomyaइतिitiहhaउवाचuvāca

अन्वय

[पिता], सः यः एषः अणिमा [अस्ति], इदम् सर्वम् एतदात्म्यम् [अस्ति]; तत् सत्यम् [अस्ति]; सः आत्मा [अस्ति]; श्वेतकेतो, तत् त्वम् असि इति [उवाच] । [सः], भगवान् मा भूयः एव विज्ञापयतु इति [उवाच] । [पिता], तथा, सोम्य इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 9

Read the whole section →