Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 12

संस्कृत

Passage 125.1

आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ १ ॥

पदच्छेद

आकाशःākāśaḥवावvāvaतेजसःtejasaḥभूयान्bhūyānआकाशेākāśeवैvaiसूर्याचन्द्रमसौsūryācandramasauउभौubhauविद्युत्vidyutनक्षत्राणिnakṣatrāṇiअग्निःagniḥआकाशेनākāśenaआह्वयतिāhvayatiआकाशेनākāśenaशृणोतिśṛṇotiआकाशेनākāśenaप्रतिशृणोतिpratiśṛṇotiआकाशेākāśeरमतेramateआकाशेākāśeनnaरमतेramateआकाशेākāśeजायतेjāyateआकाशम्ākāśamअभिजायतेabhijāyateआकाशम्ākāśamउपास्स्वupāssvaइतिiti

अन्वय

आकाशः वाव तेजसः भूयान् [अस्ति] । आकाशे वै उभौ सूर्याचन्द्रमसौ, विद्युत्, नक्षत्राणि, अग्निः [सन्ति] । आकाशेन [जनः] आह्वयति; आकाशेन शृणोति; आकाशेन प्रतिशृणोति । आकाशे रमते; आकाशे न रमते; आकाशे जायते; [अङ्कुरादि] आकाशम् अभिजायते । आकाशम् उपास्स्व इति [उवाच] ।

Passage 125.2

स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स लोकान्प्रकाशवतोऽसम्बाधानुरुगायवतोऽभिसिध्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इति आकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

पदच्छेद

सःsaḥयःyaḥआकाशम्ākāśamब्रह्मbrahmaइतिitiउपास्तेupāsteआकाशवतःākāśavataḥवैvaiसःsaḥलोकान्lokānप्रकाशवतःprakāśavataḥअसम्बाधान्asambādhānउरुगायवतःurugāyavataḥअभिसिध्यतिabhisidhyatiयावत्yāvatआकाशस्यākāśasyaगतम्gatamतत्रtatraअस्यasyaयथाकामचारःyathākāmacāraḥभवतिbhavatiयःyaḥआकाशम्ākāśamब्रह्मbrahmaइतिitiउपास्तेupāsteअस्तिastiभगवःbhagavaḥआकाशात्ākāśātभूयःbhūyaḥइतिitiआकाशात्ākāśātवावvāvaभूयःbhūyaḥअस्तिastiइतिitiतत्tatमेmeभगवान्bhagavānब्रवीतुbravītuइतिiti

अन्वय

सः यः आकाशम् ब्रह्म इति उपास्ते, सः आकाशवतः प्रकाशवतः असम्बाधान् उरुगायवतः लोकान् वै अभिसिध्यति । यावत् आकाशस्य गतम् [अस्ति], तत्र अस्य यथाकामचारः भवति—यः आकाशम् ब्रह्म इति उपास्ते । [नारदः], भगवः, आकाशात् भूयः अस्ति इति [पप्रच्छ] । [सनत्कुमारः], आकाशात् वाव भूयः अस्ति इति [उवाच] । [नारदः], तत् मे भगवान् ब्रवीतु इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 12

Read the whole section →