Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 13

संस्कृत

Passage 126.1

स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न स्मरन्तो नैव ते कञ्चन शृणुयुर्न मन्वीरन्न विजानीरन्यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वेति ॥ १ ॥

पदच्छेद

स्मरःsmaraḥवावvāvaआकाशात्ākāśātभूयःbhūyaḥतस्मात्tasmātयदिyadiअपिapiबहवःbahavaḥआसीरन्āsīranनnaस्मरन्तःsmarantaḥनnaएवevaतेteकञ्चनkañcanaशृणुयुःśṛṇuyuḥनnaमन्वीरन्manvīranनnaविजानीरन्vijānīranयदाyadāवावvāvaतेteस्मरेयुःsmareyuḥअथathaशृणुयुःśṛṇuyuḥअथathaमन्वीरन्manvīranअथathaविजानीरन्vijānīranस्मरेणsmareṇaवैvaiपुत्रान्putrānविजानातिvijānātiस्मरेणsmareṇaपशून्paśūnस्मरम्smaramउपास्स्वupāssvaइतिiti

अन्वय

स्मरः वाव आकाशात् भूयः [अस्ति] । तस्मात् यदि अपि बहवः आसीरन्, न स्मरन्तः ते कञ्चन न एव शृणुयुः, न मन्वीरन्, न विजानीरन् । यदा वाव ते स्मरेयुः, अथ शृणुयुः, अथ मन्वीरन्, अथ विजानीरन् । स्मरेण वै पुत्रान् विजानाति, स्मरेण पशून् [विजानाति] । स्मरम् उपास्स्व इति [उवाच] ।

Passage 126.2

स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

पदच्छेद

सःsaḥयःyaḥस्मरम्smaramब्रह्मbrahmaइतिitiउपास्तेupāsteयावत्yāvatस्मरस्यsmarasyaगतम्gatamतत्रtatraअस्यasyaयथाकामचारःyathākāmacāraḥभवतिbhavatiयःyaḥस्मरम्smaramब्रह्मbrahmaइतिitiउपास्तेupāsteअस्तिastiभगवःbhagavaḥस्मरात्smarātभूयःbhūyaḥइतिitiस्मरात्smarātवावvāvaभूयःbhūyaḥअस्तिastiइतिitiतत्tatमेmeभगवान्bhagavānब्रवीतुbravītuइतिiti

अन्वय

सः यः स्मरम् ब्रह्म इति उपास्ते, यावत् स्मरस्य गतम् [अस्ति], तत्र अस्य यथाकामचारः भवति—यः स्मरम् ब्रह्म इति उपास्ते । [नारदः], भगवः, स्मरात् भूयः अस्ति इति [पप्रच्छ] । [सनत्कुमारः], स्मरात् वाव भूयः अस्ति इति [उवाच] । [नारदः], तत् मे भगवान् ब्रवीतु इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 13

Read the whole section →