Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 8

संस्कृत

Passage 21.1

अथ सप्तविधस्य वाचि सप्तविधꣳसामोपासीत यत्किञ्च वाचो हुमिति स हिङ्कारो यत्प्रेति स प्रस्तावो यदेति स आदिः ॥ १ ॥

पदच्छेद

अथathaसप्तविधस्यsaptavidhasyaवाचिvāciसप्तविधम्saptavidhamसामsāmaउपासीतupāsītaयत्yatकिञ्चkiñcaवाचःvācaḥहुम्humइतिitiसःsaḥहिङ्कारःhiṅkāraḥयत्yatप्रpraइतिitiसःsaḥप्रस्तावःprastāvaḥयत्yatआāइतिitiसःsaḥआदिःādiḥ

अन्वय

अथ सप्तविधस्य [उपासनम् उच्यते] । वाचि सप्तविधम् साम उपासीत । वाचः यत् किञ्च हुम् इति [भवति], सः हिङ्कारः [अस्ति] । यत् प्र इति [भवति], सः प्रस्तावः [अस्ति] । यत् ए इति [भवति], सः आदिः [अस्ति] ।

Passage 21.2

यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २ ॥

पदच्छेद

यत्yatउत्utइतिitiसःsaḥउद्गीथःudgīthaḥयत्yatप्रतिpratiइतिitiसःsaḥप्रतिहारःpratihāraḥयत्yatउपupaइतिitiसःsaḥउपद्रवःupadravaḥयत्yatनिniइतिitiतत्tatनिधनम्nidhanam

अन्वय

यत् उद् इति [भवति], सः उद्गीथः [अस्ति] । यत् प्रति इति [भवति], सः प्रतिहारः [अस्ति] । यत् उप इति [भवति], सः उपद्रवः [अस्ति] । यत् नि इति [भवति], तत् निधनम् [अस्ति] ।

Passage 21.3

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्वान्वाचि सप्तविधꣳसामोपास्ते ॥ ३ ॥

पदच्छेद

दुग्धेdugdheअस्मैasmaiवाक्vākदोहम्dohamयःyaḥवाचःvācaḥदोहःdohaḥअन्नवान्annavānअन्नादःannādaḥभवतिbhavatiयःyaḥएतत्etatएवम्evamविद्वान्vidvānवाचिvāciसप्तविधम्saptavidhamसामsāmaउपास्तेupāste

अन्वय

यः एतत् एवम् विद्वान् वाचि सप्तविधम् साम उपास्ते, अस्मै वाक् दोहम् दुग्धे, यः [दोहः] वाचः दोहः [अस्ति] । [सः] अन्नवान् अन्नादः भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 8

Read the whole section →