Sunday Meditation· Open to Everyone

अध्याय 4, खण्ड 5

संस्कृत

Passage 61.1

अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रꣳ स्मः प्रापय न आचार्यकुलम् ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamऋषभःṛṣabhaḥअभ्युवादabhyuvādaसत्यकाम३satyakāma3इतिitiभगवःbhagavaḥइतिitiहhaप्रतिशुश्रावpratiśuśrāvaप्राप्ताःprāptāḥसोम्यsomyaसहस्रम्sahasramस्मःsmaḥप्रापयprāpayaनःnaḥआचार्यकुलम्ācāryakulam

अन्वय

अथ ह ऋषभः एनम् अभ्युवाद—सत्यकाम३ इति । भगवः इति [सत्यकामः] ह प्रतिशुश्राव । [ऋषभः आह—] सोम्य, [वयम्] सहस्रम् प्राप्ताः स्मः; नः आचार्यकुलम् प्रापय ।

Passage 61.2

ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ २ ॥

पदच्छेद

ब्रह्मणःbrahmaṇaḥचcaतेteपादम्pādamब्रवाणिbravāṇiइतिitiब्रवीतुbravītuमेmeभगवान्bhagavānइतिitiतस्मैtasmaiहhaउवाचuvācaप्राचीprācīदिक्dikकलाkalāप्रतीचीpratīcīदिक्dikकलाkalāदक्षिणाdakṣiṇāदिक्dikकलाkalāउदीचीudīcīदिक्dikकलाkalāएषःeṣaḥवैvaiसोम्यsomyaचतुष्कलःcatuṣkalaḥपादःpādaḥब्रह्मणःbrahmaṇaḥप्रकाशवान्prakāśavānनामnāma

अन्वय

[ऋषभः आह—] ब्रह्मणः च ते पादम् ब्रवाणि इति । [सत्यकामः आह—] भगवान् मे ब्रवीतु इति । [ऋषभः] तस्मै ह उवाच—प्राची दिक् कला [अस्ति]; प्रतीची दिक् कला [अस्ति]; दक्षिणा दिक् कला [अस्ति]; उदीची दिक् कला [अस्ति] । सोम्य, वै एषः ब्रह्मणः चतुष्कलः पादः प्रकाशवान् नाम [अस्ति] ।

Passage 61.3

स य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिꣳल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥएतम्etamएवम्evamविद्वान्vidvānचतुष्कलम्catuṣkalamपादम्pādamब्रह्मणःbrahmaṇaḥप्रकाशवान्prakāśavānइतिitiउपास्तेupāsteप्रकाशवान्prakāśavānअस्मिन्asminलोकेlokeभवतिbhavatiप्रकाशवतःprakāśavataḥहhaलोकान्lokānजयतिjayatiयःyaḥएतम्etamएवम्evamविद्वान्vidvānचतुष्कलम्catuṣkalamपादम्pādamब्रह्मणःbrahmaṇaḥप्रकाशवान्prakāśavānइतिitiउपास्तेupāste

अन्वय

यः एतम् ब्रह्मणः चतुष्कलम् पादम् एवम् विद्वान् प्रकाशवान् इति उपास्ते, सः अस्मिन् लोके प्रकाशवान् भवति । यः एतम् ब्रह्मणः चतुष्कलम् पादम् एवम् विद्वान् प्रकाशवान् इति उपास्ते, [सः] ह प्रकाशवतः लोकान् जयति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 4, खण्ड 5

Read the whole section →