Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 2

संस्कृत

Passage 75.1

स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदमा श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किञ्चनानन्नं भवतीति ॥ १ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaकिम्kimमेmeअन्नम्annamभविष्यतिbhaviṣyatiइतिitiयत्yatकिम्kimचित्citइदम्idamआāश्वभ्यःśvabhyaḥआāशकुनिभ्यःśakunibhyaḥइतिitiहhaऊचुःūcuḥतत्tatवैvaiएतत्etatअनस्यanasyaअन्नम्annamअनःanaḥहhaवैvaiनामnāmaप्रत्यक्षम्pratyakṣamनnaहhaवैvaiएवंविदिevaṃvidiकिम्kimचनcanaअनन्नम्anannamभवतिbhavatiइतिiti

अन्वय

सः ह उवाच—मे किम् अन्नम् भविष्यति इति । [इतरे प्राणाः] ह ऊचुः—यत् किञ्चित् इदम् आ श्वभ्यः आ शकुनिभ्यः [अन्नम् अस्ति] इति । तत् वा एतत् अनस्य अन्नम् [अस्ति] । अनः ह वै प्रत्यक्षम् नाम [अस्ति] । एवम् विदि ह वा किञ्चन अनन्नम् न भवति इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 2

Read the whole section →