Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 3

संस्कृत

Passage 76.6

स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हाञ्चकार स ह प्रातः सभाग उदेयाय तँ होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ६ ॥

पदच्छेद

सःsaḥहhaगौतमःgautamaḥराज्ञःrājñaḥअर्धम्ardhamएयायeyāyaतस्मैtasmaiहhaप्राप्तायprāptāyaअर्हाम्arhāmचकारcakāraसःsaḥहhaप्रातःprātaḥसभागःsabhāgaḥउदेयायudeyāyaतम्tamहhaउवाचuvācaमानुषस्यmānuṣasyaभगवन्bhagavanगौतमgautamaवित्तस्यvittasyaवरम्varamवृणीथाःvṛṇīthāḥइतिitiसःsaḥहhaउवाचuvācaतवtavaएवevaराजन्rājanमानुषम्mānuṣamवित्तम्vittamयाम्yāmएवevaकुमारस्यkumārasyaअन्तेanteवाचम्vācamअभाषथाःabhāṣathāḥताम्tāmएवevaमेmeब्रूहिbrūhiइतिitiसःsaḥहhaकृच्छ्रीkṛcchrīबभूवbabhūva

अन्वय

सः ह गौतमः राज्ञः अर्धम् एयाय । [राजा] तस्मै ह प्राप्ताय अर्हाम् चकार । सः ह प्रातः सभागः उदेयाय । [राजा] तम् ह उवाच—भगवन् गौतम, मानुषस्य वित्तस्य वरम् वृणीथाः इति । सः ह उवाच—राजन्, मानुषम् वित्तम् तव एव [तिष्ठतु] । कुमारस्य अन्ते याम् एव वाचम् अभाषथाः, ताम् एव मे ब्रूहि इति । सः [राजा] ह कृच्छ्री बभूव ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 3

Read the whole section →