Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 13

संस्कृत

Passage 50.7

अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ७ ॥

पदच्छेद

अथathaयत्yatअतःataḥपरःparaḥदिवःdivaḥज्योतिःjyotiḥदीप्यतेdīpyateविश्वतःviśvataḥपृष्ठेषुpṛṣṭheṣuसर्वतःsarvataḥपृष्ठेषुpṛṣṭheṣuअनुत्तमेषुanuttameṣuउत्तमेषुuttameṣuलोकेषुlokeṣuइदम्idamवावvāvaतत्tatयत्yatइदम्idamअस्मिन्asminअन्तःantaḥपुरुषेpuruṣeज्योतिःjyotiḥ

अन्वय

अथ यत् ज्योतिः अतः दिवः परः विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुत्तमेषु उत्तमेषु लोकेषु दीप्यते, यत् इदम् अस्मिन् पुरुषे अन्तः ज्योतिः [अस्ति], इदम् वाव तत् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 13

Read the whole section →