Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 8

संस्कृत

Passage 105.6

तस्य क्व मूलँ स्यादन्यत्राद्भ्योऽद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६ ॥

पदच्छेद

तस्यtasyaक्वkvaमूलम्mūlamस्यात्syātअन्यत्रanyatraअद्भ्यःadbhyaḥअद्भिःadbhiḥसोम्यsomyaशुङ्गेनśuṅgenaतेजःtejaḥमूलम्mūlamअन्विच्छanvicchaतेजसाtejasāसोम्यsomyaशुङ्गेनśuṅgenaसत्satमूलम्mūlamअन्विच्छanvicchaसन्मूलाःsanmūlāḥसोम्यsomyaइमाःimāḥसर्वाःsarvāḥप्रजाःprajāḥसदायतनाःsadāyatanāḥसत्प्रतिष्ठाःsatpratiṣṭhāḥयथाyathāनुnuखलुkhaluसोम्यsomyaइमाःimāḥतिस्रःtisraḥदेवताःdevatāḥपुरुषम्puruṣamप्राप्यprāpyaत्रिवृत्trivṛtत्रिवृत्trivṛtएकैकाekaikāभवतिbhavatiतत्tatउक्तम्uktamपुरस्तात्purastātएवevaभवतिbhavatiअस्यasyaसोम्यsomyaपुरुषस्यpuruṣasyaप्रयतःprayataḥवाक्vākमनसिmanasiसम्पद्यतेsampadyateमनःmanaḥप्राणेprāṇeप्राणःprāṇaḥतेजसिtejasiतेजःtejaḥपरस्याम्parasyāmदेवतायाम्devatāyām

अन्वय

तस्य मूलम् अद्भ्यः अन्यत्र क्व स्यात् । सोम्य, अद्भिः शुङ्गेन तेजः मूलम् अन्विच्छ; सोम्य, तेजसा शुङ्गेन सन्मूलम् अन्विच्छ । सोम्य, इमाः सर्वाः प्रजाः सन्मूलाः सदायतनाः सत्प्रतिष्ठाः [सन्ति] । यथा नु खलु सोम्य इमाः तिस्रः देवताः पुरुषम् प्राप्य एकैका त्रिवृत् त्रिवृत् भवति, तत् पुरस्तात् एव उक्तम् भवति । सोम्य, प्रयतः अस्य पुरुषस्य वाक् मनसि सम्पद्यते; मनः प्राणे [सम्पद्यते]; प्राणः तेजसि [सम्पद्यते]; तेजः परस्याम् देवतायाम् [सम्पद्यते] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 8

Read the whole section →