Sunday Meditation· Open to Everyone

अध्याय 8, खण्ड 7

संस्कृत

Passage 146.1

य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ १ ॥

पदच्छेद

यःyaḥआत्माātmāअपहतपाप्माapahatapāpmāविजरःvijaraḥविमृत्युःvimṛtyuḥविशोकःviśokaḥविजिघत्सःvijighatsaḥअपिपासःapipāsaḥसत्यकामःsatyakāmaḥसत्यसङ्कल्पःsatyasaṅkalpaḥसःsaḥअन्वेष्टव्यःanveṣṭavyaḥसःsaḥविजिज्ञासितव्यःvijijñāsitavyaḥसःsaḥसर्वान्sarvānचcaलोकान्lokānआप्नोतिāpnotiसर्वान्sarvānचcaकामान्kāmānयःyaḥतम्tamआत्मानम्ātmānamअनुविद्यanuvidyaविजानातिvijānātiइतिitiहhaप्रजापतिःprajāpatiḥउवाचuvāca

अन्वय

यः आत्मा अपहतपाप्मा विजरः विमृत्युः विशोकः विजिघत्सः अपिपासः सत्यकामः सत्यसङ्कल्पः [अस्ति], सः अन्वेष्टव्यः; सः विजिज्ञासितव्यः । यः तम् आत्मानम् अनुविद्य विजानाति, सः सर्वान् च लोकान् सर्वान् च कामान् आप्नोति इति ह प्रजापतिः उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 8, खण्ड 7

Read the whole section →