Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 15

संस्कृत

Passage 128.1

प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वँ समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ १ ॥

पदच्छेद

प्राणःprāṇaḥवैvaiआशायाःāśāyāḥभूयान्bhūyānयथाyathāवैvaiअराःarāḥनाभौnābhauसमर्पिताःsamarpitāḥएवम्evamअस्मिन्asminप्राणेprāṇeसर्वम्sarvamसमर्पितम्samarpitamप्राणःprāṇaḥप्राणेनprāṇenaयातिyātiप्राणःprāṇaḥप्राणम्prāṇamददातिdadātiप्राणायprāṇāyaददातिdadātiप्राणःprāṇaḥहhaपिताpitāप्राणःprāṇaḥमाताmātāप्राणःprāṇaḥभ्राताbhrātāप्राणःprāṇaḥस्वसाsvasāप्राणःprāṇaḥआचार्यःācāryaḥप्राणःprāṇaḥब्राह्मणःbrāhmaṇaḥ

अन्वय

प्राणः वा आशायाः भूयान् [अस्ति] । यथा वा अराः नाभौ समर्पिताः [सन्ति], एवम् अस्मिन् प्राणे सर्वम् समर्पितम् [अस्ति] । प्राणः प्राणेन याति; प्राणः प्राणम् ददाति; [प्राणः] प्राणाय ददाति । प्राणः ह पिता [अस्ति]; प्राणः माता [अस्ति]; प्राणः भ्राता [अस्ति]; प्राणः स्वसा [अस्ति]; प्राणः आचार्यः [अस्ति]; प्राणः ब्राह्मणः [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 15

Read the whole section →