Sunday Meditation· Open to Everyone

अध्याय 8, खण्ड 11

संस्कृत

Passage 150.1

तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह खल्वयमेवꣳ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ १ ॥

पदच्छेद

तत्tatयत्रyatraएतत्etatसुप्तःsuptaḥसमस्तःsamastaḥसंप्रसन्नःsaṃprasannaḥस्वप्नम्svapnamनnaविजानातिvijānātiएषःeṣaḥआत्माātmāइतिitiहhaउवाचuvācaएतत्etatअमृतम्amṛtamअभयम्abhayamएतत्etatब्रह्मbrahmaइतिitiसःsaḥहhaशान्तहृदयःśāntahṛdayaḥप्रवव्राजpravavrājaसःsaḥहhaअप्राप्यaprāpyaएवevaदेवान्devānएतत्etatभयम्bhayamददर्शdadarśaनnaअहahaखलुkhaluअयम्ayamएवम्evamसंप्रतिsaṃpratiआत्मानम्ātmānamजानातिjānātiअयम्ayamअहम्ahamअस्मिasmiइतिitiनnaउuएवevaइमानिimāniभूतानिbhūtāniविनाशम्vināśamएवevaअपीतःapītaḥभवतिbhavatiनnaअहम्ahamअत्रatraभोग्यम्bhogyamपश्यामिpaśyāmiइतिiti

अन्वय

तत् यत्र एतत् सुप्तः समस्तः सम्प्रसन्नः स्वप्नम् न विजानाति, एषः आत्मा इति ह उवाच; एतत् अमृतम् अभयम्, एतत् ब्रह्म इति । सः ह शान्तहृदयः प्रवव्राज । सः ह देवान् अप्राप्य एव एतत् भयम् ददर्श—अयम् ह खलु एवम् सम्प्रति अयम् अहम् अस्मि इति आत्मानम् न जानाति; इमानि भूतानि उ एव न [जानाति] । विनाशम् एव अपीतः भवति; अहम् अत्र भोग्यम् न पश्यामि इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 8, खण्ड 11

Read the whole section →