Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 4

संस्कृत

Passage 117.3

स यः सङ्कल्पं ब्रह्मेत्युपास्ते सङ्कॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावत्सङ्कल्पस्य गतं तत्रास्य यथाकामचारो भवति यः सङ्कल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः सङ्कल्पाद्भूय इति सङ्कल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥसङ्कल्पम्saṅkalpamब्रह्मbrahmaइतिitiउपास्तेupāsteसङ्कॢप्तान्saṅkḷptānवैvaiसःsaḥलोकान्lokānध्रुवान्dhruvānध्रुवःdhruvaḥप्रतिष्ठितान्pratiṣṭhitānप्रतिष्ठितःpratiṣṭhitaḥअव्यथमानान्avyathamānānअव्यथमानःavyathamānaḥअभिसिध्यतिabhisidhyatiयावत्yāvatसङ्कल्पस्यsaṅkalpasyaगतम्gatamतत्रtatraअस्यasyaयथाकामचारःyathākāmacāraḥभवतिbhavatiयःyaḥसङ्कल्पम्saṅkalpamब्रह्मbrahmaइतिitiउपास्तेupāsteअस्तिastiभगवःbhagavaḥसङ्कल्पात्saṅkalpātभूयःbhūyaḥइतिitiसङ्कल्पात्saṅkalpātवावvāvaभूयःbhūyaḥअस्तिastiइतिitiतत्tatमेmeभगवान्bhagavānब्रवीतुbravītuइतिiti

अन्वय

सः यः सङ्कल्पम् ब्रह्म इति उपास्ते, सः ध्रुवः प्रतिष्ठितः अव्यथमानः [सन्] सङ्कॢप्तान् ध्रुवान् प्रतिष्ठितान् अव्यथमानान् लोकान् वै अभिसिध्यति । यावत् सङ्कल्पस्य गतम् [अस्ति], तत्र अस्य यथाकामचारः भवति—यः सङ्कल्पम् ब्रह्म इति उपास्ते । [नारदः], भगवः, सङ्कल्पात् भूयः अस्ति इति [पप्रच्छ] । [सनत्कुमारः], सङ्कल्पात् वाव भूयः अस्ति इति [उवाच] । [नारदः], तत् मे भगवान् ब्रवीतु इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 4

Read the whole section →