Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 12

संस्कृत

Passage 109.1

न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति ॥ १ ॥

पदच्छेद

न्यग्रोधफलम्nyagrodhaphalamअतःataḥआहरāharaइतिitiइदम्idamभगवःbhagavaḥइतिitiभिन्द्धिbhinddhiइतिitiभिन्नम्bhinnamभगवःbhagavaḥइतिitiकिम्kimअत्रatraपश्यसिpaśyasiइतिitiअण्व्यःaṇvyaḥइवivaइमाःimāḥधानाःdhānāḥभगवःbhagavaḥइतिitiआसाम्āsāmअङ्गaṅgaएकाम्ekāmभिन्द्धिbhinddhiइतिitiभिन्नाbhinnāभगवःbhagavaḥइतिitiकिम्kimअत्रatraपश्यसिpaśyasiइतिitiनnaकिञ्चनkiñcanaभगवःbhagavaḥइतिiti

अन्वय

[पिता], अतः न्यग्रोधफलम् आहर इति [उवाच] । [पुत्रः], भगवः, इदम् [फलम्] इति [उवाच] । [पिता], [फलम्] भिन्द्धि इति [उवाच] । [पुत्रः], भगवः, [फलम्] भिन्नम् इति [उवाच] । [पिता], अत्र किम् पश्यसि इति [पप्रच्छ] । [पुत्रः], भगवः, इमाः धानाः अण्व्यः इव [सन्ति] इति [उवाच] । [पिता], अङ्ग, आसाम् एकाम् [धानाम्] भिन्द्धि इति [उवाच] । [पुत्रः], भगवः, [धाना] भिन्ना इति [उवाच] । [पिता], अत्र किम् पश्यसि इति [पप्रच्छ] । [पुत्रः], भगवः, न किञ्चन [पश्यामि] इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 12

Read the whole section →