Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 5

संस्कृत

Passage 118.3

स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥचित्तम्cittamब्रह्मbrahmaइतिitiउपास्तेupāsteचित्तान्cittānवैvaiसःsaḥलोकान्lokānध्रुवान्dhruvānध्रुवःdhruvaḥप्रतिष्ठितान्pratiṣṭhitānप्रतिष्ठितःpratiṣṭhitaḥअव्यथमानान्avyathamānānअव्यथमानःavyathamānaḥअभिसिध्यतिabhisidhyatiयावत्yāvatचित्तस्यcittasyaगतम्gatamतत्रtatraअस्यasyaयथाकामचारःyathākāmacāraḥभवतिbhavatiयःyaḥचित्तम्cittamब्रह्मbrahmaइतिitiउपास्तेupāsteअस्तिastiभगवःbhagavaḥचित्तात्cittātभूयःbhūyaḥइतिitiचित्तात्cittātवावvāvaभूयःbhūyaḥअस्तिastiइतिitiतत्tatमेmeभगवान्bhagavānब्रवीतुbravītuइतिiti

अन्वय

सः यः चित्तम् ब्रह्म इति उपास्ते, सः ध्रुवः प्रतिष्ठितः अव्यथमानः [सन्] चित्तान् ध्रुवान् प्रतिष्ठितान् अव्यथमानान् लोकान् वै अभिसिध्यति । यावत् चित्तस्य गतम् [अस्ति], तत्र अस्य यथाकामचारः भवति—यः चित्तम् ब्रह्म इति उपास्ते । [नारदः], भगवः, चित्तात् भूयः अस्ति इति [पप्रच्छ] । [सनत्कुमारः], चित्तात् वाव भूयः अस्ति इति [उवाच] । [नारदः], तत् मे भगवान् ब्रवीतु इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 5

Read the whole section →